________________
सर्गः
३
एवं प्रियाया वचनं निशम्य,
प्रोवाच चन्द्रोऽपि 'वृथा किमर्थम् ।
मह्यं प्रिये ! क्रुध्यसि निष्फलं त्वं,
गायस्व संवादय मे न रोधः ।। ७ ।।
स्वप्ने कथं तेऽभवदिन्दुवक्त्रे !,
विश्वास एवं किल नर्मणोक्ते ।
अथाऽपि चेत् ते हृदयेऽस्त्यनास्था,
जानीहि सर्वं मम सम्यगुक्तम् ।। ८ ।।
श्वश्रूसमेता कुरु सौख्यमग्र्यं,
योगो मनोज्ञो युवयोरयं हि ।
त्वं जातुचिन्माऽप्यनुगृह्य कान्तं,
संदर्शयेस्तत्कुतुकं पुरस्तात् ।। ९ ।।
समीक्षितं यन्निशि वीरमत्या,
सह त्वया तत्सकलं मयाऽपि ।
संलक्षितं कर्म न तेऽस्तु मन्यु
१०५
मन्मन्तुमेतं ललने ! क्षमस्व' ।। १० ।।
श्रुत्वा वचस्तस्य गुणावलीत्थं,
प्रोवाच 'सर्वोऽयमसत्प्रलापः ४ ।
'तस्मान्मयि प्रेम विनश्वरं ते,
जानामि नाऽन्याऽत्र समस्ति वार्ता ।। ११ ।।
. 'अभ्यर्णसंस्थाऽपि न वेत्सि कस्मात् त्वं मत्स्वभावं प्रवदाम्यथाऽपि ।।' इति पाठा० ।। २. ‘संदर्शयेर्मद्दयिते ! प्रमोदम्' इति पाठा० ।। ३. 'क्रोडस्थितं पश्यसि यद्वदेव, तद्वत् प्रिये ! ते सकलं मयाऽपि ।' इति पाठा० ।। ४. 'प्रोवाच मिथ्या वदसे कथं त्वम् ।' इति पाठा० ।। ५. 'अस्मा-' इति पाठा० ।। ६. ‘-नाऽन्या तव भावनाऽस्ति' इति पाठा० ।।