________________
शासनसम्राटपूज्याचार्यश्रीविजयनेमिसूरीश्वरपट्टधरपूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरप्राकृतविशारदपूज्याचार्यश्रीविजयश्रीकस्तूरसूरिप्रणीते चन्द्रचरित्रे तृतीयः सर्गः
(पृथ्वीवृत्तम्) स्फुरत्फणिफणावलीसुललितातपत्रः सदा,
मृगाङ्कमधुरच्छविर्वरतनुर्महोमण्डितः । विमुक्तिवरसुन्दरीकरनिपीडनप्रोल्लस
नमजनसुरद्रुमो विजयतां स पार्श्वः प्रभुः ।।१।।
(उपजातिवृत्तम् १२+१२) चन्द्रेण वाग्भिर्बहु बोधिताऽपि,
गुणावली नैव गता प्रतीतिम् । कृतोऽपराधो हि जनस्य चित्तं,
___ करोत्यनास्थाग्रसितं प्रसह्य ।। २ ॥ कृताञ्जलिः साऽथ नृपं जगाद,
'सत्यं मदुक्तं न पुनर्मूषोद्यम् । स्वप्जेक्षितस्वीयमृतिः पुनर्ना,
जानाति किं तदूतमस्तनिद्रः२ ? ॥ ३ ॥ रात्रौ मया जागरितं, न तेऽभूद,
विश्वास इत्यत्र न काऽपि तेन । १. 'प्रभावपिहितप्रभाकररुचिश्चिरं राजति ।' इति पाठा० ।। २. 'कृताञ्जलिः स्वामिनमाजगाद, गुणावली नाथ ! वदाऽऽशु तथ्यम् । न जातुचित् स्वप्नवचो यथार्थं, प्रमन्यते कोऽपि विचक्षणोऽत्र ।।' इति पाठा० ।।