________________
सर्गः
-
२
१०१
३
ध्यायन्नेवं मन्दिरस्या - ऽरं संयन्त्र्य स द्विजः । अलक्षितः सन् सुष्वाप, द्विजभीतेर्विमूढधीः ।। ५१३ ।। दिनावसाने ते सर्वे, ब्राह्मणाः समुपागताः । निमन्त्रिताः शिवागारा ऽररं बद्धं व्यलोकयन् ।। ५१४ ।।
-
'अरेरे मूर्ख ! भोज्यस्य, विलम्बं कुरुषे कथम् । उत्तिष्ठ भोजयाऽस्मांस्त्वं, बुभुक्षून् ब्राह्मणान् द्रुतम् ।। ५१५ ।। न च भोज्यस्य कोऽप्यत्र, पदार्थो दृश्यते तव । उपहासः कृतः किं वा ?, वद सत्यं नराधम !' ।। ५१६ ।। ततः स न्यगदद् 'यूयं, मौनमाश्रयत क्षणम् । स्वप्ने मोदकसम्पूर्णं, मन्दिरं वीक्ष्य भोजये ।।५१७ ।। श्रुत्वैतद्वचनं सर्वे, प्रोचू ' रे ! स्वाप्निकैः कथम् । मोदकैः क्षुन्निरस्येत, कदाचिदपि कस्यचित् ?' ।। ५१८ ।। इत्युक्त्वा ते निजावासं जग्मुर्द्विजवरास्ततः । इत्थं स्वप्नस्य महिमा, जायते प्राणवल्लभ ! ।।५१९ ।। अतो नाथ ! त्वया नैव, स्वप्ने विश्वस्यतामिह । असम्भाव्यमपि स्वप्नं, पश्यन्ति विविधं जनाः ७ ।। ५२० ।।
बहुदूरे स्थिता साऽस्ति पुरीति श्रूयते मया । रात्रिमात्रेण नो तत्र गतप्रत्यागतं भवेत् ।।५२१ ॥
?
१. ' स चैत्यस्या-' इति पाठा० ।। २. 'पूजकः' इति पाठा० ।। ३. 'मन्दिरे मुढचेतनः' इति पाठा० ।। ४. 'क्षणं तिष्ठत साम्प्रतम्' इति पाठा० ।। ५. 'चैत्यं दृष्ट्वा प्रभोजये' इति पाठा० ।। ६. 'इति संश्रुत्य ते सर्वे' इति पाठा० ।। ७. ‘कथं च क्षणतो यायां, दवीयो विमलापुरम्' इति पाठा० ।। ८. 'कथनेऽपि सतां लज्जा जायते गुणसागर ! ।' इति पाठा० ||