________________
१००
चन्द्रराजचरित्रम् देवदेवे यदा जातु, भक्तिर्भवति निर्मला । संसारसागरस्याऽपि, पारं तद्देति मानवः ।।५०३ ।। यस्मात् प्रभोर्गुणा गीता-स्त्वया तस्माददो निशि । स्वप्नोऽभून्मे महाश्चर्य-कारकः शृणु तं प्रिये ! ।।५०४ ।। त्वं श्वश्रूसहिता रात्रौ, विमलानगरीमितः । गता तत्र च दृष्टाऽपि, विवाहं समहं प्रिये ! ॥५०५ ॥ इत्येवं यावता दृष्टं, तावन्मां त्वमबोधयः । इति स्वप्नस्य महिमा, वद कीदृग् भवेत् प्रिये ! ॥५०६ ॥ त्वद्वाक्यस्यास्य स्वप्नस्य, विरोधो दिनरात्रिवत् । किं सत्यं ? किं मृषाभूतं ?, निश्चिनोति मनो न मे ।।५०७ ॥ स्वप्नो मिथ्या भवेद् यस्मान्मृषादृष्टान्ततः प्रिये ! । स एव कथ्यते लोकै-स्तस्मात् सत्यं वचस्तव" ।।५०८ ।। एवं राज्ञो वचः श्रुत्वा, चकिताऽपि स्थिरेव सा । पत्युमनः समाध्यर्थ-मेकं दृष्टान्तमूचुषी' ।।५०९ ।। 'तथाहि-"शृणु स्वामिन्नधिष्ठाने, कस्मिंश्चिच्छिवसेवकः ।
स्वप्ने मोदकसम्पूर्णं, मन्दिरं दृष्टवान् स्वकम् ।।५१०॥ सहसोत्थाय सर्वेषां, ब्राह्मणानां निमन्त्रणम् । कृत्वा यावदगात् तत्र, तावत् किञ्चिन्न सैक्षत ॥५११ ।। तदाऽसौ हृदये चिन्ता-मकरोत् किमु शङ्करः । अगृह्णान्मोदकं सर्वं, किमु मे मतिविभ्रमः ।।५१२ ।। १. 'गतवत्यसि कस्याऽपि, विवाहोऽदृश्यत त्वया ।' इति पाठा० ।। २. 'तथाऽपि मम निश्चयः' इति पाठा० ।। ३. 'पतिवचः इति पाठा० ।। ४. 'विस्मिता सा गुणावली' इति पाठा० ।। ५. 'पतिं वञ्चयितुं भूयः, प्रबन्धमकरोन्नवम् ।' इति पाठा० ।। ६. 'प्रव्यलोकयत्' इति पाठा० ।।