________________
सर्गः
-
९९
'देवि ! ते तनयस्याऽद्य महद्भयमुपस्थितम् । अतो भक्त्या शान्तिनाथं, स्तुहि दुःखनिवारकम् ।। ४९४ ।। पञ्चमङ्गलदीपैश्च, पुष्पाञ्जलिशतेन च । विद्याधरीयं राज्ञी च, त्वं च गायत सम्प्रति ।। ४९५ ।। यावत् प्रभातं भवति, तावदाराध्नुताऽखिलाः । पश्चात् सुप्तं महीपालं, शाखया ताडयाऽनया ।। ४९६ ।। येनाऽसौ निद्रया मुक्तः, सज्जः स्थास्यति भूपतिः ' । इति तद्वचनात् सर्वा, वयं भक्त्या प्रभोर्गुणान् ।। ४९७ ।। गायन्त्यः सकलां रात्रिं, जाग्रत्यस्त्वत्कृते प्रिये ! | अयापयामस्त्वां प्रात-र्बोधयित्वाऽगमत् खगः ।। ४९८ ।। युग्मम् इति सर्वं तवाऽग्रेऽहं, रजनीचेष्टितं प्रिय !" । यथावदवदं तर्हि, तच्छ्रुत्वा न्यगदन्नृपः ।। ४९९ ।। "चतुरे ! सत्यवचनं, तव नाऽस्त्यत्र संशयः । पतिव्रता सदा पत्युः, कल्याणे यतते यतः १ मदर्थं यच्च ते कष्ट-मभूत् तेन प्रियंवदे ! । मयि प्रीतिरनिन्द्या ते ऽहं जाने नात्र संशयः ।।५०१ ॥ परन्तु सत्प्रभोर्भक्तिः, कुतः स्याद् भाग्यतो विना । पुराकृतेन पुण्येन, देवो हि स्प्रियते नृभिः ।। ५०२ ।।
।। ५०० ।।
१. 'पते !' इति पाठा० ।। २. इतोऽग्रे - 'माता सूनोः प्रिया पत्यु- र्मङ्गलाय सदैव हि । यतते तत्र किं चित्रं, विश्वस्येयं व्यवस्थितिः ।।' इति निष्कासितो श्लोको दृश्यते ।। ३. 'ऽहंजानेऽनेन कर्मणा' इति पाठा० ।। ४. 'न भाग्येन विना देवि ! देवस्मरणमाप्यते' इति पाठा० ।।