________________
चन्द्रराजचरित्रम्
गुरोरास्या - निशम्य वनितासखः । जात श्रद्धोऽकरोदसौ ।। ४८३ ।।
९८
तीर्थयात्रां विमानवरमारुह्य,
भगवन्तं प्रणम्याऽसौ, परावर्तितुमैहत । यावत् तावद् विमानोऽस्य, झञ्झावातेन कुण्ठितः ।। ४८४ ॥ आभामागत्य यत्नेना-ऽप्यतो गन्तुं न सोऽशकत् । इति संदृश्य पप्रच्छ, स्वामिनं तस्य वल्लभा ।। ४८५ ।। 'नाथाऽप्रावृष्यपि कुतो देवो वर्षति सम्प्रति । अत्र कस्माद् विमानस्ते, कुण्ठितोऽभूद् वदस्व तत्' ।। ४८६ ॥ स उवाच 'प्रिये ! नैतद्, वक्तव्यं भवति क्वचित् । किञ्च मोघं न वक्तव्यं, परकीयवचो मनाक् ।। ४८७ ।। तदा निर्बन्धमत्यन्तं चकाराऽसौ पतिं प्रति । विवेकरहितस्त्रीणां, निर्बन्धो हि प्रवर्तते ।। ४८८ ।। तदोवाचा' ऽत्र राजाऽस्ति, चन्द्राख्यो वरसुन्दरि ! | ततो वैराच्च देवेन', रचितोऽयं घनाघनः ।। ४८९ ।। तस्य पुण्यप्रभावेण, मद्विमानोऽत्र कुण्ठितः ' । इति पत्युर्वचः श्रुत्वा, प्रोवाच विनयात् पतिम् ॥। ४९० ।। 'नाथाऽऽभानगराधीशो, दुःखान्मुक्तो यथा भवेत् । तथा त्वया विधातव्यं, धर्मस्याऽऽयतनं हि सः' ।। ४९९ ।। सोवाचा 'ऽहमशक्तोऽस्मि, किन्तु माताऽस्य मद्वचः । कुर्यात् तदाऽनुतिष्ठेयमुपायं येन शं भवेत्' ।। ४९२ ।। इत्युक्त्वा च ततः शीघ्रं वीरमत्या गृहेऽसकौ । समागात् तत्पुरः सर्वं कथयामास खेचरः ।।४९३ ।।
?
,
१. ‘विरोधात् केन देवेन' इति पाठा० ।। २. 'नाऽहं मोचयितुं शक्तः' इति पाठा० ।। ३. 'मोक्ष्यसे' इति पाठा० ।। ४. ' इत्युवाच' इति पाठा० ।।