________________
HTRA
९४
चन्द्रराजचरित्रम् अरुणां प्राग्दिशं बालां, तमोहालाहलावलिम् । पिबन्तीमिव दृष्ट्वोच्चैः, खगाः कोलाहलं व्यधुः ।।४४६ ।। प्राची सपत्नीमालोक्य, तादृशीं पद्मिनी पुनः । दिवाकरकरालम्बा-द्धसन्तीव बभौ तदा ॥४४७ ।। विकाशिकमलोत्सङ्ग-स्फुरत्परिमलावहः । प्रससार शनैर्वायुः, प्राची स्वस्थयितुं किमु ? ॥४४८ ।। अथ ते वाटिकामध्ये, वृक्षादुत्तेरतुः क्षितौ । कोटरस्थं न दैवेन, चन्द्रं ददृशतुस्तदा ॥४४९ ।। गतयोः स्नातुममुयो-प्यां चन्द्रमहीपतिः । उत्तीर्य वृक्षात् स्वं वेश्म, समागाच्चकिताशयः ।।४५० ।। अन्यवेषं विधायाऽसौ, सुष्वाप शयने ततः । छलेन निद्रामास्थाय, 'भार्याकपटमीक्षितुम् ।।४५१ ।। श्वश्रू-वध्वावितः स्नात्वा, संप्रहृष्टतरे गृहम् । आगच्छतां ततः श्वश्रूः, शाखां दत्त्वाऽवदद् वधूम् ।। ४५२ ।। 'अनया ताडय पतिं, येनाऽसौ जागरिष्यति' । गुणावली तामादाय, पतिमन्दिरमाविशत् ।।४५३।। 'पौराणामहरन्निद्रां, वीरमत्यपि तत्क्षणे । येन स्म प्रतिबुध्यन्ते, चिरस्वापाजना लघु ॥४५४ ।। बभूवुश्चाऽखिला लोकाः, स्वस्वकार्यपरायणाः । रात्रिवृत्तं न केनाऽपि, ज्ञायते स्म मनागपि ॥४५५ ।।
१. 'वधू-' इति पाठा० ।। २. 'नागरस्याऽ-' इति पाठा० ।। ३. 'सकला नागरा जनाः' इति पाठा० ।।