________________
९५
सर्गः - २ गुणावली समागत्य, पतिमालोक्य निद्रितम् । 'अहो पापीयसी श्वश्रूः, पतिं मे स्वापयत्यसौ' ।।४५६ ।। विचिन्त्यैवं निजं कान्तं, ताडयामास शाखया । राजाऽऽलस्यपरीताङ्ग, इव तस्थौ निजासने ।।४५७ ।। मुग्धेव राज्ञी राजान-मुवाच मधुरस्वरैः । 'स्वामिन् ! गता निशा प्रात-र्जातं सम्प्रति बुध्यताम् ।।४५८ ।। प्रभातं सूचयन् दिक्षु, रवीति चरणायुधः । उत्तिष्ठाऽतो न मतिमा-छेते सूर्योदये सति ॥४५९ ।। सूर्योदये शयानस्य, तन्द्रालोः पुरुषस्य हि । वीर्यधैर्ये न भवत-स्तस्माज्जागृहि मे प्रभो ! ।।४६० ।। निरुद्यमो जनः सर्वं, निद्रया गमयत्यहः । प्राभातिकोऽयं समयो, महापुण्यमयः सदा ॥४६१ ।। उत्तिष्ठ नाथ ! सूर्योऽपि, समागादुदयाचले ।। प्राभातिकं मुखाब्जं स्वं, दर्शयस्व ममाऽधुना ॥४६२ ।। अहं गङ्गाजलैः पूर्ण, भृङ्गारं धारयामि ते । आचम्यतां प्रभो ! राज्ञो, व्यायामसमयोऽधुना ॥४६३ ।। आर्यपुत्र ! प्रबुध्यस्व, सभां कर्तुं क्षणस्तव । अयं चेच्छृणुयान्माता, क्रोधं त्वयि विधास्यति' ।।४६४ ।। १. 'अयं जागर्ति सर्वस्मात्, प्रथमं चरणायुधः ।' इति पाठा० ।। २. इतोऽग्रे"नाथ ! रात्रिरियं व्यर्थं, विलासेन विनाऽगमत् । अशयानैव या सर्वा, निशेयं गमिता मया ।। बोधितोऽपि मया शश्वन्नाबुद्धाः प्रियवल्लभ !। अस्वस्थता ते किं वाऽन्यां पर्यणैषीः कुमारिकाम् ।।" इति निष्कासितौ द्वौ श्लोकौ दृश्यते।।