________________
सर्गः - २
नाऽऽगमिष्यस्तदाऽद्रक्ष्यः, कथं दृश्यममूदृशम् । .. प्रत्यहं दर्शयेयं चे-दन्विया मे वचस्तदा ।।४३६ ।। मत्तः परः कोऽपि नास्ति, गगने गमने क्षमः । पतत्रिणोऽपि गच्छन्ति, दिवि द्वादशयोजनीम् ॥४३७ ।। चारणर्षि विना मत्तो', निःसीमगमनेऽधिकः । कोऽस्ति ? यत्र हि नो वायो-गतिस्तत्रापि मे गतिः ॥४३८ ।। यत्कार्यं विधिना न स्यात्, तत्कार्यं मन्त्रशक्तितः । कर्तुं शक्यं, समस्तं मे, वरीवर्ति वशे जगत्' ॥४३९ ।। गुणावली ततः प्रोचे, 'श्वश्रु ! सत्यं वचस्तव । प्रत्यक्षे न प्रमाणस्य, ह्यपेक्षा भवति कचित् ।।४४० ।। किन्तु मे संशयो मातः, प्रेमलापरिणायकः । सत्यं तवैव तनयो, नाऽन्यस्तनिश्चितं मया' ।। ४४१ ।। निशम्य न्यगदच्चश्रू-'मुग्धे ! ते प्रबलो भ्रमः । जातुचित् तनयो मे न, गर्खेतैवं त्वया क्वचित् ।।४४२ ।। यं यं त्वं सुन्दरं बाल, ईक्षेथास्तं निजभ्रमात् । 'चन्द्र एवाऽयमित्येवं, कथयेः किं जनं वधु !' ॥४४३ ।। एवं तयोरालपन्त्यो-रभूत् ताम्रशिखध्वनिः ।। सपत्नीपद्मिनीद्वेषा-दिव प्राच्यरुणाऽभवत् ।।४४४ ।। वृक्षस्य कोटरे लीनं, भान्तं चन्द्रं विडम्बयन् । दिशं प्रतीचीमास्थाय, चन्द्रोऽलक्ष्यत्वमाप्तवान् ।।४४५ ॥ १. 'मां वा' इति पाठा० ।। २. 'प्रभुः' इति पाठा० ।। ३. 'कोऽप्यस्ति ? यत्र नो' इति पाठा० ।। ४. 'वृक्षस्य कोटरे यद्वच्चन्द्रो राजति सम्प्रति । प्राच्याः क्रोडे सहस्रांशुरुदगात् तद्वदेव हि ।।' इति पाठा० ।।