________________
९२
चन्द्रराजचरित्रम् छुच्छुन्दरी यथा सर्प, गिलित्वाऽज्ञानतस्तथा । परितप्याम्यहं पश्चा-द्धिंसकच्छलतोऽधुना' ॥४२५ ।। तथापि प्रेमला न स्म, मन्यते लवमप्यहो । प्रेमबन्धो जितो येन, जितकाशी' स मानवः ॥४२६ ॥ चन्द्रवस्त्राञ्चलं नैवा-ऽमुञ्चत प्रेमला वधूः । चन्द्रेण विविधैर्वाक्यै-र्बोधिताऽपि विशङ्किता ॥४२७ ।। इतो यथार्थनामा स, हिंसकः समुपागतः । कठोरवचनैश्चन्द्रं, निर्गन्तुमवदच्छली ।।४२८ ।। तच्छ्रुत्वाऽऽत्ताञ्चलं राजा, मोचयित्वा बहिर्निरैत् । सहन्ते जातु नो धीरा, वचनं परुषं यतः ॥४२९ ।। प्रेमला मन्त्रिणं दृष्ट्वा, लज्जातोऽन्तः समाविशत् । चन्द्रः सिंहलभूपाल-मुपेत्य न्यगदत् सुधीः ।।४३० ।। 'यत्कर्तव्यं कृतं सर्वं, मया किन्तु विशां पते ! । रोरुद्यमानाया अस्या, लज्जा सम्प्रति ते करे' ॥४३१ ॥ इत्युक्त्वा खड्गमादाय, समागाद् वृक्षसन्निधौ ।। गुहायां केसरीवाऽसौ, कोटरे समुपाविशत् ॥४३२ ।। अथ वीरमती तत्र, वधूयुक्ता समागमत् । आमन्त्र्य वृक्षमारुह्य, चचालाऽऽभापुरीं प्रति ।।४३३ ।। अर्धयामावशेषे च, वृक्षो' रात्रेस्ततोऽचलत् । मार्गे वीरमती प्राह, वधूं दृष्ट्वा समुत्सुकाम् ॥४३४ ।। 'कीदृशी नगरी दृष्टा ?, कीदृशः कनकध्वजः ?। कीदृशं कौतुकं दृष्टं, वद सुन्दरि ! मे वधु ! ॥४३५ ॥ १. "जितशत्रुः' इति टि० ।। २. 'वृक्षे' इति पाठा० ।।