________________
सर्गः
न तेऽस्त्यविदितं किञ्चिच्चरित्रं मम साम्प्रतम् । प्रतार्याऽपि न मां शोभां प्राप्स्यसि त्वं मनागपि ।। ४१७ ।।
९१
मानिन् ! मानं त्यजेदानीं, शरण्यो न भवेर्यदि । तदा किं ते यशो लोके, भविष्यति गुणाकर ! ।। ४१८ ।। न च ते श्वशुरो दातुं, कार्पण्यमवलम्बते । तथापि यदि ते याच्यं वर्तते तर्हि तद्वद' ।। ४१९ ।।
शारिपाशकवेलायां यत् त्वयाऽवादि तन्मया ।
?
ज्ञातं सर्वं न संदेहो, विस्मर्येत न कर्हिचित् ॥ ४२० ।।
यदि मां छलयित्वा त्वं, गमिष्यसि तथाऽप्यहम् । मिलिष्याम्येव जाने हि, प्राच्यामाभापुरी तव" ।। ४२१ ।।
चन्द्रोऽवदत् 'कथङ्कारं, निर्बन्धः क्रियते त्वया । ज्ञायेते ह्रासवृद्धी नो, विधिलेखस्य सुन्दरि ! ।। ४२२ ।। न ते कथयितुं योग्या, वार्ताऽस्ति वरवर्णिनि ! । अतो धैर्यं समास्थाय, चित्तस्थैर्यं विधीयताम् ।।४२३ || यदि तिष्ठामि नो वाक्यं सत्यं स्याद् यामि तर्ह्यहम् । स्नेहबन्धः स्थिरो न स्यात्, किं करोम्यधुनाऽवशः ।। ४२४ ।।
१. इतोऽग्रे - 'जामाताऽनुरुणद्धयेतं, शावको ('लघुः' इत्यत्र टीप्पणी ) यदि तत्क्षमम् । न तु स्वार्थं विनैवाऽस्य, रोषो हि शोभते क्वचित् ।। रुदतोऽपि स्वभार्यादींस्त्यजन्ति मुनिपुङ्गवाः । भवादृशास्तु न क्वाऽपि शृङ्गररसरागिणः ।। किन्त्वयं समयो नाथ !, शृङ्गररसवर्त्मना । देवदेवस्य कामस्य, समाराधनभाजनम् ।।' इति त्रयः श्लोका निष्कासिता दृश्यन्ते ।।