________________
चन्द्रराजचरित्रम्
,
प्रेमरश्मिनिबद्धस्तां मोक्तुं चन्द्रोऽपि नाशकत् । करे गृहीत्वा भवने, समानयत सा पतिम् ॥ ४०८ ॥ प्रार्थनाभिरनेकाभिः पर्यङ्के विनिवेश्य तम् । बद्धाञ्जलिपुटा कान्तं, विनयादित्यजिज्ञपत् ।। ४०९ ।। "क्षणे क्षणे कथं स्वामिं श्चाञ्चल्यमवलम्बसे ? | सङ्गमे प्रथमेऽपि त्वं कथं छलयसेऽत्र माम् ।। ४१० ।। प्रथमे कवले स्वामिन् !, मक्षिका निपतेद् यदि । तदा का भोजने प्रीति- जयेताऽशनशालिनः ? ।। ४११ ।। इत्थं मामबलां नाथ ! कथं त्यजसि निष्ठरः । आदावेव, कुतः पश्चात्, स्नेहो वृद्धिमुपैष्यति ? ॥। ४१२ ।। अतश्चञ्चलतां त्यक्त्वा, प्रेमबन्धं कुरुष्व मे ।
।
।। ४१४ ।।
मिलितुं भवता नाथ !, भृशमुत्कण्ठते मनः ।। ४१३ ।। यथादेशमहं नाथ !, करिष्ये नात्र संशयः वृथैव मां कथं चिन्ता - ज्वरेण दहसि प्रभो ! इयं ते सर्वसम्पत्ति - रधीनाऽस्ति न संशयः । स्निग्धाश्च सर्वे वर्तन्ते, स्वजनास्त्वयि सर्वथा ।। ४१५ ।। तवाऽस्मि किङ्करी त्वं च ममाऽसि हृदि देवता । एवं स्थिते प्रियाऽऽख्याहि, कारणं किं तवाऽरतेः ५ ।। ४१६ ।। १. ' को भोजने स्वाद :' इति पाठा० ।। २. 'कथं ' इति पाठा० ।। ३. इतोऽग्रे - 'ये द्वे गाथे त्वया पूर्वं कथिते हि तयोरहम् । जानाम्यर्थमतो न त्वां, मोक्ष्यामि हृदयङ्गमम् ।। चन्द्राननचकोरीं मा - माश्वास्य हि कथं पुनः । निराशयति दीनां त्वमाग्रहं त्यज सुन्दर ! ।।" इति निष्कासितौ द्वौ श्लोकौ दृश्येते ।। ४. 'इयं ते सर्वसम्पत्तिर्वचनाऽऽचरणक्षमा । अहं त्वच्चरणाम्भोज-भ्रमर्येवाऽस्मि सर्वदा ('सम्प्रति' इत्यपि पाठा०)' इति पाठा० ।। ५. 'उपानदिव पादस्य, तवाऽहं मौलिभूषणम् । असि नाथ ! पुनः कस्मान्नोच्यते प्रेमवागहो ।।, इतोऽग्रे - 'सिंहलं नगरं क्वास्ति ?, क्वास्तीयं विमलापुरी । दैवयोगात् समुत्पन्न, आवयोः सङ्गमः प्रभो ! | ' इति निष्कासितः श्लोको दृश्यते ।।
९०