________________
सर्गः - २
८९
तस्याऽमूं च स्मृतं सद्यो-ऽपरमातृविचेष्टितम् । ननर्त विमलावृत्तं, पुनस्तद्धृदयाङ्गणे ॥३९९ ।। इति चिन्तासमाचान्त-स्वान्तोऽशान्त इव क्षणम् । तस्थौ पुनर्नृपश्चेतः, समाधाय व्यचारयत् ।।४०० ।। यथा न वृक्षमादाय, गच्छेतां ते तथा मया । विधातव्यं न चिन्ताभिः, कालक्षेपो हितो मम ॥४०१ ॥ निश्चित्यैवमथो चन्द्रः, स्वनिर्मोकमिवोरगः । त्यक्त्वा तां प्रस्थितो यावत्, सा तावत् तमवोचत ॥४०२ ॥ 'नाथ ! कस्मादतीवाऽसि, चञ्चलो गच्छसि क्व नु ?' । 'देहचिन्ताकृते यामि, बहिरि'त्यवदन्नृपः ॥४०३ ।। निशम्य जलमापूर्य, भृङ्गारे साऽचलत् समम् । निवारिताऽपि नो पत्युः, सङ्गं तत्याज भामिनी ॥४०४ ।। अवकाशमनासाद्य, ततः पुनरगाद् गृहम् । तावद्धिंसक आगत्यो-वाच तं चन्द्रभूपतिम् ।।४०५ ।। 'राजन् ! रात्रिरियं यावत्, तावत् सुखमवाप्नुहि । उदिते पद्मिनीनाथे, स्वरूपं त्वं प्रकाशयेः' ।।४०६ ।। इत्येवमुक्तिमाकर्ण्य, चन्द्रो द्वारमुपागमत् । छायेव देहं तं नैव, शङ्किता सा व्यमुञ्चत ।।४०७ ।। १. 'वृत्तान्तमिति सञ्चिन्त्या-ऽपरमातृविचेष्टितम् । ननर्त विमलावृत्तं, चन्द्रस्य हृदयाङ्गणे ।।' इति पाठा० ।। २. 'विधातव्यं कृतं स्नेहै-रनया सह मेऽधुना।' इति पाठा० ।। ३. 'यथोरगः स्वनिर्मोकं, मुञ्चत्यवनिपस्तथा । तामुपेक्ष्य स्थितो यावत्, तावत् सा तमवोचत ।।' इति पाठा० ।। ४. 'इत्यन्योक्तिं समाकर्ण्य' इति पाठा० ।।