SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् ८८ न ते सुदुर्लभं सङ्गं, मोक्तुं चित्तं भविष्यति । तथाऽपि पूर्ववृत्तान्तं स्मृत्वोत्तिष्ठ गुणालय ! ।। ३९० ।। यथा न कोऽपि जानीयात्, तथा कुरु दयाम्बुधे !' । इति तद्वचनं श्रुत्वा चन्द्रो गन्तुं मनो दधे ।। ३९१ ।। यथा न सागरो वेला - मुल्लङ्घयति कर्हिचित् । तथा नैव प्रतिज्ञातं, स्वार्थे सत्यपि सत्यवाक्' ।। ३९२ ।। दृढप्रतिज्ञस्तच्चन्द्रः र, परिणीय परिणीय नृपाङ्गजाम् । त्यक्तुं नहि मनाक् खेदं चकार सत्त्वसंस्थितः ।। ३९३ ।। अथ प्रातर्महीपालो, रथारूढस्तया सह । ददद्वित्तं याचकेभ्यः, सिंहलेशगृहं ययौ ।। ३९४ ।। तौ दम्पती पुनस्तद्व-देकान्तेऽतिष्ठतां ततः । प्रेमला चञ्चलं दृष्ट्वा ऽचिन्तयन्निजवल्लभम् ।। ३९५ ।। 'पाणिग्रहणवेलायां, दृष्टः प्रियतमो यथा । तथा न साम्प्रतं किन्तु, विलक्षणतरः कुतः ? ' ।। ३९६ ।। इतः सिंहलभूपालः, संज्ञया तमजूहवत् । तज्ज्ञात्वा चन्द्रभूपाल - श्चिन्तयामास चेतसि ।। ३९७ ।। सम्पन्नः स्वार्थ एतस्य, विसिसृक्षति मां ततः । किन्त्वहं विस्मरिष्यामि, वृत्तमेतं कथं श्वसन् ।। ३९८ ।। " १. 'प्रहारं सहते नैव, वेगवानश्वपुङ्गवः । तथा न सत्यवाक् वाक्यय-विपरीतं करोति हि ।।' इति पाठा० ।। २. - स्तद्रूपः' इति, 'वाक्यबद्धः स भूपाल:' इति च पाठा० ।। ३. ‘चन्द्रमहीपालो' इति पाठा० ।। ४. ' - तरोऽधुना' इति पाठा० ।। ५. ‘संज्ञया सिंहलेशस्त- माजुहाव क्षितीश्वरम् । अथ ज्ञात्वा महीपाल - श्चिन्तयामास चेतसि ।।' इति पाठा० ।। ६. 'सम्पन्नः स्वार्थ एतेषां व्यसृजन् मां ततो नृपः ('विससर्जेति मां ततः' इति पाठा० ) । परन्तु जीवनं यावद्, विस्मरिष्यामि नेत्यहम् ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy