________________
८७
सर्गः - २ एवमुक्त्वाऽत्यजत् पाशान्, प्रेमला तन्निशम्य च । दध्या वसम्बद्धमिदं, कथं वदति मत्प्रियः२ ।। ३८२ ।। सिंहलात् पुरतोऽभ्येत्य, महोत्सवपुरस्सरम् । परिणीतोऽस्ति मामद्य, चन्द्रस्याऽवसरोऽत्र कः ? ।। ३८३ ।। प्राच्यामाभापुरी कुत्र ?, कुत्राऽसौ चन्द्रभूपतिः । पाशाः सरलाः क्व तस्य, संशेतेऽत्र मनो मम ।।३८४ ।। सिंहलाधिपपुत्रस्य, मिषाद् वा' चन्द्रभूपतिः । मां पर्यणैषीदित्येत-द्वचनाल्लक्ष्यतेऽधुना' ॥३८५ ।। इत्येवं चिन्तयन्ती सा, क्रीडां परिसमाप्य च । मनोजसदृशं दृष्ट्वा, वरं कामवशाऽभवत् ।।३८६ ।। कायेन मनसा वाचा, लीना पत्यौ शुचिस्मिता । तदैव सात्त्विकं भावं, समगाद् रागसञ्चितम् ।।३८७ ।। विस्मृतं च ततः सर्वं, वल्लभस्य वचस्तया । किन्तु चञ्चलचित्तः स, समैक्ष्यत सविस्मयम् ॥३८८ ॥ इतः सिंहलभूपालो, जगाद 'शृणु पुत्रक ! । उत्तिष्ठ यामिनी याम-शेषैव वर्ततेऽधुना ।। ३८९ ।। १. '-ऽमुचत्' इति पाठा० ।। २. 'अयुक्तमेवं वदति, कथं मे प्राणवल्लभः।' इति पाठा० ।। ३. 'परिणीय हि मां तत् किं, नोच्यतेऽनेन साम्प्रतम् ।' इति पाठा० ।। ४. 'असम्बद्धमिदं जाने, संशयो जायतेऽत्र मे।' इति पाठा० ।। ५. 'किं' इति पाठा० ।। ६. '-सदृशाऽऽकारं, दृष्ट्वा' इति पाठा० ।। ७. 'मनोवाक्कायवचनै-ीना पत्यौ शुचिस्मिता । तदैव सात्त्विको भावः, प्रादुरासीत् तदन्तरे' इति पाठा० ।। ८. 'तथाऽपि विस्मरत्येषा, वल्लभस्य हि तद्वचः। उत्कण्ठितं पतिं ताव-दीक्षाञ्चक्रे प्रियं तदा ।।' इति पाठा० ।।