SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ CG चन्द्रराजचरित्रम् ''आभापुरस्थश्चन्द्रोऽय-मुद्गतो विमलापुरे । अप्रार्थितस्य प्रेम्णोऽस्ति, निर्वाहो विधिहस्तगः' ॥३७३ ।। इत्युक्त्वा स झणत्कारं, पाशं राजाऽमुचद् द्रुतम् । परन्तु प्रेमला तस्य, वचनाद् विस्मिताऽभवत् ॥३७४ ।। 'इदं किमुच्यतेऽनेन ?', चिन्तयन्ती हृदीत्यसौ । जिज्ञासमाना तस्यार्थ-मवोचत् पाशहस्तिका ।। ३७५ ।। 'गगनस्थः शशाङ्कः स, विमलयामुदेतु तत् । येनैव विहितो योगः, सैव निर्वाहयिष्यति' ॥३७६ ।। इत्युक्त्वा साऽऽनयत् पाशाञ्छ्रुत्वा तच्चन्द्रभूपतिः । 'इयं नावगता मेऽभि-प्रेतार्थमि'त्यचिन्तयत् ॥३७७ ।। गाथां प्रत्येकमुक्त्वैवं, रेमाते दम्पती ततः । बुबोधयिषुणा भावं, चन्द्रेणोक्तमिदं पुनः ॥३७८ ।। 'प्राच्यामाभापुरी नाम, नगरं सुमनोहरम् । तत्र चन्द्रमहीपाल-स्तस्य वेश्मनि सुन्दरि ! ॥३७९ ।। विचित्ररत्नखचिताः, सन्त्यक्षा यादृशाः प्रिये ! । तादृशा न क्वचिद् देवि !, वीक्ष्यन्ते ते धरातले ॥३८० ॥ तादृशाश्चेद् भवेयुस्ते, क्रीडेयं तमुहं खलु । अन्यथा किं मुधैवेता', रजनीमतिवाहयै' ।।३८१ ॥कलापकम् १. 'आभापुरम्मि निवसइ, विमलपुरे ससहरो समुग्गमिओ । अपत्थियस्स पिम्मस्स, विहिहत्थे हवइ निव्वाहो ।।' इति प्राकृतगाथा ।। २. 'वसिओ ससि आगासे, विमलपुरे उग्गमिओ जहा सुहं । जेणाभिभूओ जोगो, स करिस्सइ तस्स निव्वाहं ।।' इति प्राकृतगाथा ।। ३. 'नैवाबुद्ध' इति पाठा० ।। ४. 'एवं गाथाद्वयं शश्वद्, भणित्वा दम्पती अमू । चिखेलतुपस्तां स, बुबोधयिषुरित्यवक्' इति पाठा० ।। ५. 'वरीवर्ति मनोहरा' इति पाठा० ।। ६. 'दिव्येयं' इति पाठा० ।। ७. 'मुधैवाह' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy