________________
सर्गः - २ 'पुत्री गुणवती यादृग्, भूपतेस्तादृशः' खलु । वरोऽयं निर्मितो धात्रे'-त्यूचुः पौरजनास्तदा ॥३६४ ।। हस्त्यश्वरथमुक्तादि-स्वर्णभूषणरूप्यकम् । वस्त्राण्यदाद् वराया-ऽऽशु महीपः करमोचने ॥३६५ ॥ जग्मतुः कौतुकागारं, सानन्दौ तौ वधू-वरौ । प्रेमला व्याजतः पत्यु-रालुलोके मुखाम्बुजम् ।।३६६ ।। दध्यौः 'देवसमानोऽयं, पतिर्मेऽजायत ध्रुवम् । भूयो भाग्यवती विद्ये, सर्वासु प्रमदास्वहम्' ॥३६७ ॥ तदा तस्या दक्षिणाक्षि, पस्पन्देऽथ मुहुर्मुहुः५ । भृशं ततः सा विधुरा, बभूव क्षितिपाङ्गजा ।।३६८ ।। तन्नैव प्रकटीचक्रे, धीरा सा प्रेमला तदा । महतां सुखदुःखे हि, मनस्येव निमज्जतः ।। ३६९ ।। एवं वधू-वरौ तत्र, परिणाय्य महीपतिः । सोत्सवं याचकेभ्यश्च, सोऽन्नवस्त्रादिकं ददौ ।।३७० ।। ततः स्वर्णमयान् पाशान्, रहस्यादाय दम्पती । चिक्रीडतुश्चन्द्रभूपस्तत्र सङ्केतमातनोत् ॥३७१ ।। सिंहलादिमहीपालो, न जानीत यथा तथा । श्लोकमेकमपाठीत् स, श्रीचन्द्रश्चतुराग्रणी: ॥३७२ ॥ १. '-शी' इति पाठा० ।। २. इतोऽग्रे- 'अम् वधूवरौ नित्य-मखण्डसुखभाजिनौ । भूयास्तामिति संप्रोचु-राशिषं नागरा जनाः ।।' इति निष्कासितः श्लोको दृश्यते ।। ३. 'अहो' इति पाठा० ।। ४. 'प्रेमलाया' इति पाठा० ।। ५. '-ऽलं तदैव हि' इति, '-न्यन्न येन सा' इति च पाठा० ।। ६. 'भृशं तदानीं' इति पाठा० ।। ७. 'महाशया न तत् क्वाऽपि, प्राचकाशन्नृपात्मजा' इति पाठा० ।। ८. 'समस्यां चन्द्रभूपालः, प्रारेभे वक्तुमेतदा' इति पाठा० ।।