SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ८२ चन्द्रराजचरित्रम् राजमार्गेऽथ यान्तं त-मूरीकृतवराह्वयम् । गवाक्षन्यस्तवक्त्राब्जाः, पश्यन्ति स्मैणलोचनाः ॥३३९ ॥ काचित् कृतार्द्धनेपथ्या, वरं वीक्षितुमुत्सुका' । काचित् स्खलद्वस्त्रहस्ता, समागात् परितो द्रुतम् ।।३४० ।। लाक्षारञ्जितपादैका, नेत्रार्धकृतकज्जला । गृहकर्माऽसमाप्यैव, काचिदागात् त्वरान्विता ॥३४१ ।। तासामाबालवृद्धानां, वृन्दैर्भूरि स्तुतो वरः । प्रतिरथ्यं विलम्ब्यैव, ययौ भूपस्य मन्दिरम् ॥३४२ ।। गन्धतैलावसिक्ताश्च, दीपास्तत्र शतं बभुः । किं द्रष्टमागतास्तारा, नभस्तः पृथिवीतलम् ॥३४३ ।। चन्द्रं दृष्ट्वाऽपरं भूम्या-मिव पौरा वरं चिरम् । निर्निमेषा बभुर्देवा, ध्रुवं तत्र समागताः६ ।।३४४ ।। १. 'काचिद् गवाक्षजालेन, पश्यन्ती मृगलोचना । सिंहलेशतनूजोऽयं, प्रेमलां परिणेष्यति ।।' इति पाठा० ।। २. '-मङ्गना' इति पाठा० ।। ३. 'दर्शनोत्सुका' इति पाठा० ।।, इतोऽग्रे- "नूपुरे मूर्ध्नि विन्यस्य, चूडारत्नं पदाम्बुजे । काञ्ची कण्ठे समागच्छद्, हारं विन्यस्य सत्कटौ ।। लाक्षारसं नेत्रयुगे, कज्जलं चरणद्वये । (अत्र पाठान्तरम्- 'नूपुरे पदयोय॑स्य, चूडारनं च मूर्धनि । काञ्ची कटौ समागच्छद्, हारं गलतले तथा ।। लाक्षारसं पदद्वन्द्वे, कज्जलं नयनद्वये ।) प्रयोज्य काचिदागच्छत्, प्रमदा संभ्रमान्विता ।। ३. उत्तरीयमधोदेशेऽन्तरीयं न्यस्य चोपरि ।" इति निष्कासिताः श्लोका दृश्यन्ते।। ४. 'लाक्षारञ्जितपादैका, जगामाऽऽलोकनोत्सुका । अयि ते स्रंसते वस्त्रं, कथमेषि ससंभ्रमम्' इति पाठा० ।। इतोऽग्रे- 'सखि ! यास्याम्यहमपि, क्षणं तिष्ठ समुत्सके !। इत्येवं युवतीवाक्यं, संशृण्वन् स महीपतिः ।।' इति निष्कासितः श्लोको दृश्यते ।। ५. 'गन्धतैलावसिक्तानां, दीपानां शतमाबभौ । किं द्रष्टमागतः सूर्यः, किं चन्द्रः परिणेष्यति ।।' इति पाठा० ।। ६. 'सूर्ये सति कथं चन्द्रः, समागादिति नागराः। विवदन्ते मिथो लोका, वीक्ष्य तत्कौतुकं महत् ।।' इति पाठा० ।।, इतोऽग्रे- 'संवीजितानि मन्येऽहं, व्यजनानि पुनः पुनः । कनकध्वजभिन्नोऽयं, शंसन्तीव विरेजिरे ।।' इति निष्कासितः श्लोको दृश्यते ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy