________________
८३
सर्गः - २ यथा श्रुतस्तथैवाऽयं, चक्षुःकै रवचन्द्रमाः ।। प्रेमलायाः पूर्वजन्म-सुकृतैर्भविता वरः१ ।।३४५ ॥ धन्यौ स्तः पितरौ याभ्यां, पुत्ररत्नममूदृशम् । उदपादयतां लोक-नेत्राऽऽसेचनकं क्षितौ ।।३४६ ।। नाऽस्य रूपस्य कलया-ऽप्यसर्जि मकरध्वजः । नो वाऽश्विनीकुमारौ वा, देवा अन्येऽपि किं पुन: ? ।। ३४७ ।। एवं प्रशस्यमानोऽसौ, पौरलोकैः पदे पदे । बह्वाडम्बरतोऽगच्छद्, वरो मण्डपसन्निधिम् ।।३४८ ।। सिंहलाधिपतिस्तद्वद्, हिंसको मन्त्रिसत्तमः । मण्डपान्तं समागच्छद्, वरेण सह सङ्गतः ।।३४९ ।। मङ्गलैर्गीतनृत्याद्यैः, स निन्ये मातृमन्दिरम् । प्रेमलाऽपि सहाऽनेन, कृतमङ्गलमण्डना ।। ३५० ।। वरेण चन्द्रभूपेन, प्रेमलायाश्च सङ्गमः । रत्याः पुष्पेषुणेवाभा-च्छच्या "गिरिभिदेव वा ॥३५१ ।। इति लोका उल्लपन्तः, शुभाशिषमदुर्भृशम् । अखण्डभोगं भजता-माचन्द्रार्कं वधू-वरौ ।। ३५२ ।। अथ गुणावली-वीर-मत्यौ पुरमहोत्सवम् । दृष्ट्वा मण्डपमायातां, वधूवरविभूषितम् ॥३५३ ।। १. 'पतिः' इति पाठा० ।। २. 'अहो विधातर्धन्योऽसि, धन्याऽस्य जननी तथा। यत्सर्गप्रसवालङ्कृत्, पुत्ररत्नं महीतले ।।' इति पाठा० ।। ३. 'गृहे गृहे' इति पाठा० ।। ४. इतोऽग्रे- 'महोत्सवः कृतस्तत्र, यस्तं देवगुरोरपि। गदितुं क्षमता नास्ति, किमुताऽन्यस्य कस्यचित्' इति निष्कासितः श्लोको दृश्यते ।। ५. "मायरु' इति भाषायाम्' इति टि० ।। ६. 'कामेन' इति टि० ।। ७. 'इन्द्रेण' इति टि० ।।