________________
सर्गः - २
८१ एवं चन्द्रवचः श्रुत्वा, राजामात्यौ विनीतवत् । छलेन प्रार्थनाभिश्च, तं वशीचक्रतुः क्रमात् ।।३२९ ।। पश्चाद्विचार्य चन्द्रोऽपि, स्वीचकार वचस्तयोः । यच्छ्रुत्वा हर्षसंमग्नौ, राजामात्यौ बभूवतुः ॥३३० ।। अथ सिंहलभूपालो, विचित्राभरणैर्नृपम् । मण्डयामास विधिवद्, वरयोग्यैरनेकशः ।।३३१ ।। हस्त्यश्वरथवाहादी-नलङ्कर्तुं समादिशत् । वाद्यशब्दोऽभवद् येन, रोदसी पूरिते भृशम् ॥३३२ ।। गजानां घण्टिकाशब्दै-रश्वानां भूषणस्वनैः । टनत्कारै रथानां च, शब्दाद्वैतमभूज्जगत् ।।३३३ ।। पताकानां किङ्किणिकाः, सस्वनुर्दिवि संस्थिताः । देवान् विज्ञापयन्तीव, प्रेमलाचन्द्रसङ्गमम् ।।३३४ ।। चन्द्रं दिदृक्षुश्चन्द्रोऽपि, कलाभिः परिपूरितः । समाजगाम, गम्भीरो, ढक्काशब्दो व्यजृम्भत ।।३३५ ।। अलीनाह्वयता द्रष्टं, चन्द्रोद्वाहक्षणं ध्रुवम् । गजानां मदगन्धेन, व्यानशे जगतीतलम् ॥३३६ ।। गजानां बंहितैषा-रावैरासंश्च वाजिनाम् । जगद्व्याप्तैरन्यशब्दा-स्तिरोधानं गता बलात् ॥३३७ ।। विमलायाः पुरो लोका, वरं द्रष्टं समागताः । स्पर्धयेव कृतानेक-नेपथ्याश्चारुदर्शनाः ॥३३८ । १. 'बधिरीकृते' इति पाठा० ।। २. 'येन शब्देन साशङ्को, देवराजोऽप्यजायत' इति पाठा० ।। ३. 'जगद्व्याप्तैरनेकेषां, कर्णा बधिरतां गताः' इति पाठा० ।। ४. 'विचित्रवेषा विविध-नेपथ्यवर- भूषिताः' इति पाठा० ।।