________________
८०
चन्द्रराजचरित्रम् राजाऽस्मान् मन्दिरेऽमुष्मिन्, समुत्तार्य यथाविधि । भोज्यादिना सदकरोद्, हे चन्द्र ! मकरध्वजः ।।३१९ ।। अद्यैव रात्रिसमये, भावी परिणयोत्सवः' । इति तेऽभ्यागमं राज-नन्वेष्टं निजसेवकान्' ।।३२० ।। सप्तद्वारेऽत्र नगरे, सङ्केतमभिधाय च । प्रेषयं देवतावाक्यात्, तैरानीतोऽसि मेऽन्तिकम् ।।३२१ ।। त्वां दृष्ट्वाऽथ भृशं मान-माप्ताः स्मो वयमप्यहो ! ।। इति ते कथितः सर्वो, वृत्तान्तोऽवितथो मया ॥३२२ ।। यद्यत्र मिथ्या किमपि, भवेत् ते चरणं तदा । स्पृशामि राजराजेन्द्र-मौलिलालितसत्क्रम ! ।।३२३ ।। अतो मे विनयं राजन् !, स्वीकृत्य मदभीप्सितम् । संसाधय, सतां यत्नः२, परोपकृतये यतः ।।३२४ ।। त्वं गतिर्नो न चाऽन्याऽस्ति, लज्जाऽस्माकं तवैव हि । हस्तेऽस्ति, न परो विद्याद्, यथा कुरु तथाऽचिरम्" ॥३२५ ।। हिंसकाचरितं दीर्घ, विचार्य निखिलं ततः । सिंहलाधिपतिं चन्द्रो, जगाद नयपूर्वकम् ।।३२६ ।। 'राजन् ! न घटतेऽनीति-मेवं कर्तुं तवाऽधुना । राजा चेत् कुरुतेऽन्यायं, जनः कं शरणं श्रयेत् ।।३२७ ।। प्रेमलां परिणीयाऽपि, दद्यां पुत्राय ते कथम् ? । क्षत्रियोऽस्मि न तजाति, कलङ्कयितुमुत्सहे' ॥३२८ ।। १. 'प्रेमलां परिणेष्यति' इति पाठा० ।। २. '-दूतकान्' इति पाठा० ।। ३. 'मार्गः' इति पाठा० ।। ४. 'विज्ञाय' इति पाठा० ।।