________________
षष्ठपापस्थानकालोचना
षष्ठं क्रोधाभिधं पाप-स्थानकं शमसौख्यहृत् । विपाकविरसं सिद्ध-प्रायःकार्यस्य नाशकम् ॥३३॥ क्रोध उत्पद्यमानः स्वं, पूर्वं दहति वह्निवत् । अभावे शमनीरस्य, परान् प्रज्वालयेदपि ॥३४॥ उत्कृष्टतपसा जीवो, यत् पूर्वकोटिवत्सरैः । उपार्जयति पुण्यं तत्, क्रोधानाशयति क्षणात् ॥३५॥ चारित्रभाजनं विज्ञं, त्यजन्ति क्रोधिनं जनाः । मणिना भूषितं सर्प, केऽपि रक्षन्ति नाऽऽलये ॥३६॥ यत्किञ्चिद् दुष्कृतं पूर्वं, क्रोधेनोपार्जितं मया ।
मनसा कर्मणा वाचा, तत् त्रिधा क्षमयाम्यहम् ॥३७॥ सप्तमपापस्थानकालोचना
मानाख्यं सप्तमं पाप-स्थानकं विनयापहम् । शैलस्तम्भोपमं येन, स्तब्धो भवति मानवः ॥३८॥ स्तब्धत्वान्न विधत्ते स, गुरुशुश्रूषणं परम् । शुश्रूषाभावतो जातु, श्रुतलाभः कथं भवेत् ! ॥३९॥ श्रुताभावान्न विरति-रविरत्या न संवरः । असंवरात्तपो नैव, निर्जरा न तपो विना ॥४०॥ विना निर्जरया नैव, ह्याक्रियत्वं प्रजायते । अभावे चाऽक्रियत्वस्य, नाऽयोगित्वभवक्षयौ ॥४१॥ मानेनैतादृशा पूर्वं, भवभ्रमणहेतुना । यद् दुष्कृतं मया बद्धं, तत् त्रिधा क्षमयाम्यहम् ॥४२॥
-
80
विविध हैम रचना समुच्चय