SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अष्टमपापस्थानकालोचना सर्वानर्थप्रसूर्माया, पापस्थानकमष्टमम् । बहिर्या रम्यरूपाऽपि, करालाऽभ्यन्तरे भृशम् ॥४३॥ अपराधमकुर्वाणो, गुणयुक्तोऽपि मायिकः । सर्पवन्नहि विश्वास - भाजनं जातु जायते ॥४४॥ रिपुभावं वहन् क्रोधी, प्रशस्तः प्रकटं न तु । मायी मित्रस्वरूपेण, शत्रुकार्यं करोति यः ॥४५॥ श्रीमल्लेः प्राग्भवे बद्ध-तीर्थकृन्नामकर्मणः । अपि स्त्रीत्वमभूत् तत्र को हेतुर्मायया विना ॥ ४६ ॥ • भवेऽस्मिन् यत् पुरा माया-वशादन्यभवेषु वा । उपार्जितं मया पापं तन्मिथ्या मम जायताम् ॥४७॥ " नवमपापस्थानकालोचना पापस्थानकमादिष्टं, नवमं लोभनामकम् । सर्वदा सर्वजन्तूनां यत्परं प्रीतिकारणम् ॥४८॥ यन्मुखे पतितः प्राणी, चक्री वा वासवोऽपि वा । प्राप्तलोकत्रयैश्वर्यः, सुखी न क्षणमप्यहो ? ॥ ४९ ॥ अयं शराववन्मूले, लघुः पश्चान्महत्तरः । न सन्तोषं विना केऽपि तं जना जेतुमीशते ॥५०॥ स्वयम्भूरमणाम्भोधिं, देवास्तरितुमीश्वराः । तेऽपि लोभाम्बुधिं नैव, कथञ्चित्तरितुं क्षमाः ॥५१॥ अर्जितं यन्मया पूर्वं, लोभेन दुष्कृतं हि तत् । मिथ्या कुर्वे त्रिधा पीत - सन्तोषपरमामृतः ॥५२॥ अष्टादशपापस्थानकालोचनाशतकम् 81
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy