________________
भवेऽस्मिन् वा पुराऽज्ञानाद्, भवेष्वन्येषु केषुचित् ।
गृहीतं यन्मयाऽदत्तं, तन्मिथ्या मम जायताम् ॥२२॥ चतुर्थपापस्थानकालोचना
मैथुनाख्यं तथा तुर्य, पापस्थानकमाविलम् । यदाचर्य जनो विश्वे, प्रशंसां लभते नहि ॥२३॥ बुद्धिर्हि क्रमशो येन, सच्छिद्रघटवारिवत् । हीयते तत्कथं धीरः, प्रतिषेवेत मैथुनम् ॥२४॥ एकेयं विषयासक्ति-र्गुणेष्वन्येषु सत्स्वपि । काणकपर्दिकातुल्यं, विधते मनुजं खलु ॥२५॥ शूरोऽपि ज्ञातशास्त्रोऽपि, जनो यस्य वशंगतः । वीर्यज्ञानविहीनः स्यात्, तदब्रह्म न भद्रकृत् ॥२६॥ विषयाख्यविषध्वस्तो, मनोवाङ्कर्मभिर्भृशम् ।
यदकार्षमहं पापं, तन्मिथ्या मम जायताम् ॥२७॥ पञ्चमपापस्थानकालोचना
धन-धान्य-सुवर्णादौ, ममताबुद्धिलक्षणम् । परिग्रहाभिधं पाप-स्थानकं पञ्चमं मतम् ॥२८॥ परिग्रहग्रहाविष्टः, सत्स्वप्यर्थेषु भूरिषु । मनागप्येति नो शान्ति, भ्राम्यतीतस्ततो भुवि ॥२९॥ दुनोत्यसंशयं विश्व-मपूर्वोऽयं ग्रहोऽशुभः । सन्तोषमन्त्रजापेन, तच्छान्तिर्जायते ध्रुवम् ॥३०॥ इन्धनैर्नाऽनलो नैव, नदीभिः पूर्यतेऽम्बुधिः । परिग्रहैस्तथा जीवो, न तृप्यति कदाचन ॥३१॥ गृहीत्वाऽनुज्झिता ये ये, विधिपूर्वं परिग्रहाः ।
तज्जन्यं दुष्कृतं सर्वं, मिथ्या मे जायतां प्रभो ! ॥३२॥ अष्टादशपापस्थानकालोचनाशतकम्
79