SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ एक-द्वि-त्रि- चतु: - पञ्चेन्द्रियादिप्राणिनो मया । भवेऽस्मिन् वा पुराऽज्ञानाद्, भवेष्वन्येषु केषुचित् ॥११॥ ये ये विराधिताः सर्वां स्तानहं क्षमयाम्यथ । तद्विसाजनितं भूया - न्मिथ्या मे दुष्कृतं प्रभो ! ॥१२॥ द्वितीयपापस्थानकालोचना असत्याख्यं द्वितीयं च, पापस्थानकमुच्यते । हास्य-लोभ-भय-क्रोधै- मृषोक्तिं चक्षते जनाः ॥१३॥ 78 जायते ऽसत्यतो वैरं, सन्तापश्च प्रवर्धते । बहून्यन्यानि पापानि प्रभवन्ति मृषोक्तितः ॥ १४ ॥ सकृदुक्तमसत्यं हा !, सत्यापयितुमीहया । शतशो मानवोऽसत्यं वक्तीति श्रूयते श्रुते ॥ १५ ॥ 1 " असत्यं वचसां रोगः, परमं पदमापदाम् । नाऽसत्यवचनं तस्मात् प्राणान्तेऽपि वदेत्सुधीः ॥१६॥ भवेऽस्मिन् वा पुराऽज्ञानाद्, भवेष्वन्येषु केषुचित् । यदसत्यं मया प्रोक्तं, तन्मिथ्या मम जायताम् ॥१७॥ तृतीयपापस्थानकालोचना , परेण नैव यद्दत्तं गृह्यते द्रविणादिकम् । तृतीयं तद् भवेत्पाप - स्थानकं स्तेयनामकम् ॥१८॥ ग्रामे वा विजने वाऽपि, पतितं विस्मृतं तथा । तृणमात्रमपि प्राज्ञो न गृहणीयात्कदाचन ॥१९॥ " वधजन्यं भवेद् दुःखं क्षणमेकस्य देहिनः । प्रियापुत्रयुतस्य स्याद् यावज्जीवं धने हृते ॥२०॥ अत्र वधादिकं प्रेत्य, प्राप्यते येन दुर्गतिः । तत्स्तेयं वर्जयित्वा ज्ञो, नाऽऽप्नुयात्कः शमुत्तमम् ? ॥२१॥ विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy