________________
१७. अष्टादशपापस्थानकालोचनाशतकम् ॥
(रचना सं. २०३२ - मुंबई-गोडीजी) वीरं भक्त्या जगद्वन्द्यं, नत्वा स्मृत्वा च सद्गुरुम् । पापभारापनोदाय, प्रयतेऽहं यथामति ॥१॥ (अनुष्टुप्-वृत्तम् ) अनाद्यनेहसो योऽसौ, संयोगो जीवकर्मणोः । दुःखरूपस्तथा दुःख-फलो दुःखानुबन्धकः ॥२॥ शुद्धधर्मं विना न स्या-त्तद्विच्छेदः कथञ्चन । तद्वाप्तिर्भवेज्जन्तो-विगमात् पापकर्मणः ॥३॥ स्यात्पापकर्मविगम-स्तथाभव्यत्वपाकतः । तत्पाकसाधनान्येवं, जगुस्त्रीणि जिनेश्वराः ॥४॥ चतुःशरणसम्प्राप्ति-स्तथा दुष्कृतगर्हणा । अर्हत्सिद्धादितत्त्वानां, सदा सुकृतसेवना ॥५॥ द्वितीयं साधनं तत्र, प्रोक्तं दुष्कृतगर्हणम् । विशेषेणेह संक्लिष्ट-पापनाशाय गद्यते ॥६॥ इहाऽनारतसंसार-परिभ्रमणहेतवः ।
अष्टादशाऽपि हिंसादि-पापस्थानानि जन्मिनाम् ॥७॥ प्रथमपापस्थानकालोचना
तत्र प्राणातिपाताऽख्यं, पापस्थानकमग्रिमम् । सर्वदोषकरं सर्व-गुणहानिकरं मतम् ॥८॥ त्रसस्थावरजीवानां, प्राणानां यद्वियोजनम् । प्रमत्तयोगतः स्यात्तद्-हिंसा शास्त्रे निरूप्यते ॥९॥ विरम्यैतादृशप्राणा-तिपाताद् व्रतमाचरन् । दयापरो भवेदात्मा, ह्येतद् धर्मप्रयोजनम् ॥१०॥
अष्टादशपापस्थानकालोचनाशतकम्
77