________________
श्रीधर्मघोषसूरीश-पार्वे प्रान्ते सभार्यकः । दीक्षामादाय प्राराध्य, देवलोकातिथित्वमैत् ॥४९६॥ इतश्च जिनदत्तोऽसौ, जिनरक्षितसंयुतः । न्यायेन पालयन् राज्यं, धर्मकृत्यरतोऽभवत् ॥४९७॥ जिनेन्द्रचैत्यरुच्यानि, नगराणि समाचरन् । कुर्वन् धार्मिकवात्सल्यं, दीनादींश्च समुद्धरन् ॥४९८॥ सद्धर्मकृत्यैः पूज्याह-च्छासनं च प्रभावयन् । श्राद्धधर्मधुरीणः स, निनाय समयं सुखम् ॥४९९॥ भवाब्धितारिणीं दीक्षा-मादाय गुरुसन्निधौ । शास्त्राण्यधीत्य चारित्रं, शुद्धमाराध्य भावतः ॥५००॥ तपस्तप्त्वा चिरं प्रान्ते, कृत्वा पञ्चनमस्कृतिम् । मृत्युं समाधिना प्राप्य, स्वर्जगाम निराकुलः ॥५०१॥ (युग्मम्) ततश्च्युत्वा च सम्प्राप्य, नरत्वं धर्मवासितम् । क्रमशो धर्ममाराध्य, सिद्धि प्राप्स्यति निश्चितम् ॥५०२॥ इत्येवं श्रेष्ठिवर्य श्री-जिनदासकथां शुभाम् ।
श्रुत्वा शुद्धधिया धर्म, समाचरन्तु धीधनाः ॥५०३॥ ॥ इति उपाध्यायश्रीहेमचन्द्रविजयगणिवर्यविरचिताजिनदासश्रेष्ठिकथा समाप्ता ।
76
विविध हैम रचना समुच्चय