________________
पितरावूचतुः पुत्रौ !, यावज्जीवं सुभाग्यतः । इदमाराधितस्याऽहो-धर्मकल्पतरोः फलम् ॥४८४॥ तस्माद् युवामपि प्राज्य-भक्तिसम्भृतमानसौ । भवतं सर्वदा पुत्रा-वपि धर्मोन्मुखावुभौ ॥४८५॥ दीनानाथादिसत्त्वेषु, दयाकृत्येषु तत्परौ । जिनेश-गुरुवर्याणां, भक्तारौ च बभूवतुः ॥४८६॥ श्रेष्ठिसुतवधायाऽऽज्ञां, निजां स्मरंस्तु ठक्कुरः । मनुते स्वमपराद्धं, लज्जया म्लानमानसः ॥४८७॥ वधादेशभवं मन्तुं, निजं क्षामयितुं तदा । सपुत्रजिनदासस्य, समीपमुपजग्मिवान् ॥४८८॥ परादरेण नम्रः सन्, नमति स्म पदाम्बुजे । नृपोऽपि चक्षमे तस्याऽगाधमप्यपराधकम् ॥४८९॥ प्रदात्रे आश्रयस्याऽथ, ठक्कुरायाऽपि भूपतिः । ददौ प्रत्युपकारार्थं, ग्रामान् मुदितमानसः ॥४९०॥ जिनदत्तनरेन्द्रोऽसौ, जिनरक्षितसंयुतः । स्वकीयपितृनिर्बन्धात्, सिंहासनमधिष्ठितः ॥४९१॥ शक्तिमान् स शशासाऽथ, राज्यं निर्नष्टकण्टकम् । पुत्रवत् पालयामास, प्रजाः सर्वाः दयाहृत् ॥४९२॥ जिनमत्या युतो नित्यं, जिनदासोऽपि शुद्धधीः । आचार्यवर्यवक्त्राब्जात्, शृणोति धर्ममार्हतम् ॥४९३॥ जिनेन्द्रप्रतिमामर्चन्, ददद् दानं च पात्रके । साधर्मिकेषु वात्सल्यं, धरन् व्रतपरायणः ॥४९४॥ धर्ममाराधयन्नेवं, कियान् कालः व्यतीतवान् । पुराकृतानि पुण्यानि, फलन्त्येव नृणां ध्रुवम् ॥४९५॥
श्रीजिनदासश्रेष्ठिकथा
75