________________
किन्त्वसौ कथमित्थं द्राक्, कथयेत् त्वं सुतोऽसि मे । ततः श्रेष्ठी स मौनेन, तस्थौ नृपतिसन्निधौ ॥४७२॥ तदा सबन्धू राजाऽसौ, सिंहासनात् समुत्थितः । तत्पादपुण्डरीकेऽथ, चञ्चरीकोऽवदन्मुदा ॥४७३॥ ताताऽस्माकमियान् काल-स्तवाऽऽस्येक्षणवर्जितः । विनाऽस्मज्जननीपाद-पद्मवन्दनतोऽपि च ॥४७४॥ अद्याऽस्माकं दिनं तात !, सफलं जायतेतराम् । यत्पितचरणाम्भोज-साक्षात्कारो ह्यजायत ॥४७५॥ माता जिनमती श्रुत्वा, वृत्तान्तं लोकतस्ततः । स्नेहामृतरसास्वाद-प्रसादितमनाः द्रुतम् ॥४७६॥ गृहान्निर्गत्य तत्राऽऽगाद् हर्षाश्रुभृतलोचना । सहसैतां निजाम्बां तौ, निरीक्ष्य द्वावपि द्रुतम् ॥४७७॥ धावित्वा नेमतुर्मातृ-पादाब्जे भक्तिभृद्हदौ । न त्यजन्ति विवेकं हि, सन्तः सारधियः शुकाः ॥४७८॥ माताऽप्यतिप्रमोदेन, निःस्रवत्स्तनमण्डला । नयनद्वयतोऽश्रूणि, मुञ्चन्ती प्रेक्षते तकौ ॥४७९॥ हर्षोत्कर्षोमिमालाभि-रुद्यद्-हृदयसागरा । तौ सुतौ सहसोत्थाप्य, प्रालिलिङ्ग सुभाग्यभाक् ॥४८०॥ जिनदत्तोऽपि पितरौ, निजसिंहासनोपरि । संस्थाप्योवाच युष्माकं, पुण्यपुञ्जप्रभावतः ॥४८१॥ राज्यमेतन्मया प्राप्तं, नाऽत्र शङ्कालवोऽपि हि । स्वीकरोतु कृपां कृत्वा, तद् रे तात ! गुणाम्बुधे ! ॥४८२॥(युग्मम्) वयं च वः पदाम्भोजे, निषेविष्यामहि सदा । समयं प्राप्य कल्याण-मयं को गमयेत् सुधीः ? ॥४८३॥
विविध हैम रचना समुच्चय
14