________________
प्रधानानीकिनीनाथ - मुक्त्वा करि तुरङ्गमैः । राज्यरक्षार्थमादिशन् - मन्त्रिसेनापतींस्तदा ॥ ४६० ॥ पदाति-रथमुख्यैश्च, प्रबलैः सैनिकैर्युतः । निर्ययौ स्वीयभवना दुत्को विजययात्रया ॥ ४६१ ॥
-
साम-दाम-भेद-दण्डैः, पथिस्थान् नृपपुङ्गवान् । वशीकुर्वन् क्रमेणाऽऽशु, ठक्कुरग्राममागमत् ॥४६२॥ यद्ग्रामे माता- पितरा - वास्तां तद्ग्रामतो बहिः । क्वचिद् भूमिस्थले तूर्णं, स्कन्धावारमतिष्ठिपत् ॥ ४६३ ॥ ठक्कुरोऽपि महाराजागमनाद् भयान्वितः । तत्राऽऽगत्य ननामैवं, सभ्रातृकं नरेश्वरम् ॥४६४॥
1
सुबहूपायनं दत्त्वा तदाज्ञां शिरसाऽवहत् । कथाविनोदैर्नृपति- जिनदत्तोऽन्वयुक्त तम् ॥४६५॥
त्वदीयनगरे कोऽपि, वणिगस्त्यथवा नहि । सोऽवगस्ति मम ग्रामे, जिनदासाभिधो वणिक् ॥ ४६६ ॥ वत्सरेभ्यः कियद्भ्योऽसा वस्ति वाणिज्यमाचरन् । नृपोऽपि श्रेष्ठिनन्तञ्चाऽऽनेतुं कमपि प्राहिणोत् ॥ ४६७ ॥ तदूताकारणावाक्यं श्रुत्वा श्रेष्ठी त्वरान्वितः । समागत्य नृपं बन्धु - सहितं प्रणनाम च ॥ ४६८ ॥ पर्यपृच्छन्नरेन्द्रस्तं, श्रेष्ठिन् ! त्वं मामवेहि किम् ? | नम्राननोऽवदत् श्रेष्ठी, हृदि संकोचमावहन् ॥४६९ ॥
"
भवन्तं पृथिवीनाथं, को न जानाति साम्प्रतम् ? | नरेन्द्रोऽवङ् नैवमस्ति किन्तु पृच्छाम्यहं खलु ॥ ४७० ||
"
सम्बन्धित्वेन तदा स्माह, जिनदासो महाशयः ।
सत्यं सबन्धुं राजानं, पुत्रत्वेनाऽभ्यलक्षयत् ॥४७१॥ ( युग्मम् ) श्रीजिनदास श्रेष्ठिकथा
73