________________
मौक्तिकक्षारकस्याऽपि, दैवाद् बन्धोः समागमात् । विशेषतस्तथैवाऽभूत्, प्रमोदोऽतुलितोऽद्भुतः ॥४४८॥ राजाऽनुजं निजं वृत्तं, व्यालदंशनतः समम् । आरभ्य विषमोक्षान्त-मुक्त्वा तं तत् स्म पृच्छति ॥४४९॥ स च श्रेष्ठिगृहाऽऽगत्या, आरभ्य सकलं निजम् । शीलवत्या विवाहान्तं, वृत्तान्तं हि न्यवेदयत् ॥४५०॥ ततोऽसौ धरणीनाथो, रोषारुणेक्षणोऽभवत् । एतादृक्षे हि निःशूके, कस्य रोषो न जायते ? ॥४५१॥ नृपोऽथ कृपणं क्रुद्धो, वध्यं स स्वकमादिशत् । . नृपाः क्षाम्यन्ति नाऽन्यायं, विशेषं बान्धवे कृतम् ॥४५२॥ कनिष्ठस्य तु विज्ञप्त्या, विहायाऽऽज्ञां वधेऽस्य हि । नरेश्वरोऽखिलां लक्ष्मी, तदीयामपहारयत् ॥४५३॥ निरवासयदाश्वेव, स्वबन्धुपरितापकम् । निकटं कण्टकं नैव, रक्षन्ति सुखकाङ्क्षिणः ॥४५४॥ नृपः स्वबन्धुना युक्तः, शीलवत्या तया मुदा । गजेन्द्रस्कन्धमारुह्य, निजमन्दिरमागमत् ॥४५५॥ स्वबन्धोः शीलवत्याश्च, राजाऽष्टाह्निकमुत्सवम् । जिनेन्द्रचैत्ये संहृष्टः, कारयामास भक्तितः ॥४५६॥ एवमानन्दसन्दोहाद्, व्यतीयुर्वासराः सुखम् । विधिज्ञानां न चित्राय, सुख-दुःखपरम्परा ॥४५७॥ एकमेवाऽभवद् दुःखं, दुःसहं सहजन्मनोः । यन्मातुर्जनकस्याऽपि, चिराय विरहोऽभवत् ॥४५८॥ सबन्धुर्नरनाथः स्व-पित्रोस्तु मिलनोत्सुकः । प्राप्तैकस्मिन् सुखेऽन्यत् तद्, वाञ्छ्यते हीदृशो नरः ॥४५९॥
विविध हैम रचना समुच्चय
12