________________
शीलवती तदोवाच, वाचं वाचंयमा सती ।
राजन् ! न परिणेता मे ऽयं कुष्ठी श्रेष्ठिनन्दनः ॥४३६॥ स्मररूपो नरः कोऽपि, विवोढा भाटकेन माम् । क्षरन्ति नेत्रतस्तस्य, मौक्तिकानि तु भाग्यतः ॥४३७॥
नरेन्द्रस्तन्मुखाम्भोजान्मौक्तिकक्षरणस्य तु ।
"
वार्तां श्रुत्वा निजं बन्धुं शङ्कमानः स्म पृच्छति ॥४३८॥ वर्तते सोऽधुना कुत्र, पुत्रि ! गतभयं वद । तदानीमवदत् श्रेष्ठी, बिभ्यत् पापप्रकाशतः ॥ ४३९ ॥ एषा मम स्नुषा राजन्, चलचित्ताऽस्त्यतश्च सा । यद्वा तद्वाऽभिधत्ते यत्, तद्वचो न प्रतीयताम् ॥४४०॥
तदाकर्ण्य नरेन्द्रस्तु, जगाद परुषाक्षरैः । श्रेष्ठस्त्वया किमप्यत्र न वक्तव्यं नराधम ! ॥४४१॥
नरनाथः पुनः शीलवतीं प्रपच्छ सादरम् । पुत्रि ! त्वमेव कथय, सोऽधुना कुत्र वर्तते ? ॥४४२ ॥ ततः सोवाच हे राजन् ! कृपणश्रेष्ठिनाऽमुना । प्रासादस्याऽस्य सप्तम्यां भूमिकायां दयां विना ॥ ४४३॥
,
मौक्तिकानां प्रलोभेन, मौक्तिकक्षारकः सकः । मञ्जूषाभ्यन्तरे क्षिप्तो वर्तते नरनायक ! ॥ ४४४॥ एवं श्रुत्वा नरेन्द्रो, द्राक्, परिवारसमन्वितः । गत्वोपरि स मञ्जूषा- मध्येऽपश्यत् स्वसोदरम् ॥४४५॥
"
ततो निष्कास्य हर्षेणा - ऽऽलिङ्गयद् गाढमञ्जसा । विरहानलसन्तापः, शान्तिमापाऽश्रुधारया ॥४४६ ॥ चिरात् स्वबन्धुसङ्गत्या, सपरिच्छद-भूपतेः । अद्भुतातुलितामन्दा-नन्दसन्दोह उद्ययौ ॥४४७॥
श्रीजिनदास श्रेष्ठिकथा
71