________________
परिवारैर्वृतः प्रागात्, कृपणश्रेष्ठिसद्मनि । द्वितीयदिवसे राजा, प्रधानप्रमुखैनिजैः ॥४२४॥ स्वार्थसिद्धयै सुधीः सर्वं, कालोचितं समाचरेत् । श्रेष्ठी तस्य नरेन्द्रस्य, सुष्ठ स्वागतमाचरत् ॥४२५॥ अन्तर्वेश्मोपविश्याऽथ, विशांपतिः नरोत्तमः । प्रासादमध्यभागस्य-सिंहासनमधिष्ठितः ॥४२६॥ परस्त्रीणां मुखं नेक्ष्यं-मिति चारुविचारतः । श्रेष्ठिस्नुषां जवनिकाऽभ्यन्तरे स्वानिरीक्षताम् ॥४२७॥ आहूय स्थापयामास, ततस्तां समभाषत । अयि पुत्रि ! कुलस्त्रीणामेक एव पतिः खलु ॥४२८॥ परिणेता स यादग् वा, तादृशो भवतात् परम् । नाऽन्यो भवति तद्धेतोः, सोऽवमान्यो न जातुचित् ॥४२९॥ त्वयाऽपि स्वपतिर्देव, इवाऽऽराध्यो हृदाऽनिशम् । एषो हि कुलबालानां, धर्मस्तु जीवितावधि ॥४३०॥ ततः शीलवती प्राह, विनयेन नृपं प्रति । नरदेव ! नृपाः नित्यं, जनानां जनकायिताः ॥४३१॥ तद्देव ! तातकल्पस्य तवाऽग्रेऽवाच्यमस्ति किम् । सत्यं वक्ष्यामि तस्य त्वं, दास्यसि न्याय्यमुत्तरम् ॥४३२॥ पूर्वं तु परिपृच्छामि, स्त्रीणां स्यात् कीदृशः पतिः ?। परिणेता तदन्यो वा, ग्रहीता भाटकेन वा ? ॥४३३॥ उवाच नृपतिस्तर्हि, लौकिकाचारपेशलः । प्रसिद्धं जनतामध्ये, एवमेव विराजते ॥४३४॥ यः स्त्रीणां परिणेता स्यात्, सैव भर्ता भवेदिति । नाऽन्यस्तासां भवेन्नाथ, इति शास्त्रेषु निश्चितम् ॥४३५॥
विविध हैम रचना समुच्चय
70