________________
तत्रैवं पथि वाग्युद्ध-मभूत्तेषां परस्परम् । मध्यस्थपुरुषा ऊचु-रत्र वाक्कलहेन किम् ? ॥४१२॥ यत्कार्यं तद् गृहे कार्य, लोकमध्ये क्वचिन्नहि । मौक्तिकक्षारकोपेता, जग्मुर्गामं समे जनाः ॥४१३॥ शीलवत्या निवासाय, वासमेकं समार्पयत् । तत्र दासीयुता शील-वत्युवास यथासुखम् ॥४१४॥ अन्येास्तातप्रहितः, स कुष्ठी श्रेष्ठिनन्दनः । शीलवत्या समीपं चाऽऽगच्छन् दास्याऽवमानितः ॥४१५॥ निःश्रेण्या अध आक्षिप्त-श्चूर्णिताङ्गो ह्यजायत । एवं यदा यदा सोऽगाद्, दास्यक्षैप्सीत्तदा तदा ॥४१६॥ अधस्तात् कुष्ठिनं श्रेष्ठिनन्दनं निन्द्यविग्रहम् । तेनैवं निरचैषीत् स, नाऽत्रैष्यामि कदाऽप्यहम् ॥४१७॥ कति व्यतीयुरेवं हि, दिनानि श्रेष्ठिसद्मनि । न मेने कस्यचिद् वाक्य-मसौ शीलवती सती ॥४१८॥ एकदा कृपणश्रेष्ठी, चिन्तयामास चेतसि । यदि तां धरणीनाथो, बोधयेत् तर्हि मंस्यते ॥४१९॥ एवं विचिन्त्य विविधै-रुपहारैर्वरैर्नृपम् । उपेत्योपतिं दत्त्वा, स्ववृत्तान्तं न्यवेदयत् ॥४२०॥ स्वस्नुषाबोधनार्थाय, प्रार्थयामास पार्थिवम् । भविष्यति शुभं किञ्चि-दिति मत्वा स भूपतिः ॥४२१॥ स्वीकृत्यैतदवोचच्च, श्व एष्यामि तवाऽऽलयम् । ततोऽसौ कृपणश्रेष्ठी, निजगेहं समागतः ॥४२२॥ नृपागमनवृत्तान्तं, स्वकुटुम्ब न्यवेद्य सः । सज्जीचकार राजाह-सत्कारोपस्करं वरम् ॥४२३॥ श्रीजिनदासश्रेष्ठिकथा
69