________________
मौक्तिकक्षारकोऽवक् तां, बाले ! नाऽहं पतिस्तव । भाटकेन मयाऽसि त्वं, परिणीता पराज्ञया ॥४००॥ यदेष कृपणश्रेष्ठी, मौक्तिकग्रहणेच्छया । स्वगेहे सप्तमावन्यां, मञ्जूषायां निरुध्य माम् ॥४०१॥ बद्धं मामन्वहं तोत्र-ताडनेन मदक्षितः । च्युतमौक्तिकजातं च, गृह्णाति स दयोज्झितः ॥४०२।( युग्मम्) नवां वधूमधुना त्वां, विवोढां भाटकेन हि । कृपणस्याऽर्पयिष्यामि, कुष्ठिने तस्य सूनवे ॥४०३॥ तन्मां मोक्ष्यति कुश्रेष्ठी, पापिष्ठः पुत्रप्रेमतः । प्रेमान्धा न हि पश्यन्ति, परपीडां कदाचन ॥४०४॥ सुन्दरि ! पश्य मामेष, निर्ममः करसज्ञया । आज्ञापयत्यवतरीतुं, रंहसा स्यन्दनादतः ॥४०५॥ अतोऽहं द्राग्गमिष्यामी-त्युक्त्वाऽसौ मौक्तिकक्षरः । अवतीर्य रथात्तूर्णमारुरोह रथान्तरम् ॥४०६॥ अथाऽसौ श्रेष्ठिनः कुष्ठी, पुत्रो रथमुपागमत् । आरुरुक्षू रथं शीलवत्याऽऽरोहन्तमञ्जसा ॥४०७॥ पार्श्वस्थदासीहस्तेन, पातयामास तं भुवि । स भूयो रथमारोढु-माजगाम पुनश्च तम् ॥४०८॥ चेटी पाणितलेनाऽधोऽपीपतद् वेगभागिना । ततोऽसौ खेदमापन्न-स्तत्र रुदन्नवास्थित ॥४०९॥ श्रेष्ठिप्रभृतयो लोकास्तामागत्य बभाषिरे । किमेवं कुरुषे ? साऽवक्, कुष्ठिकोऽयं न मे वरः ॥४१०॥ परिणेता तु मां योऽति-रूपवान् राजपुत्रवत् । तस्माद् यद्येष आयाति, तदा निष्कासयामि तम् ॥४११॥
विविध हैम रचना समुच्चय
68