________________
अश्रुबिन्दुसमुद्भूतं, गृह्णन् मौक्तिकसंचयम् । इत्थं कशाऽभिघातेन, प्रतिपातेऽतिदुःखितः ॥३२९॥ श्रेष्ठिनः सप्तमावन्यां, मञ्जूषायां नियन्त्रितः । बन्धुना रहितो बालो, निनायाऽहानि कानिचित् ॥३३०॥
इतश्च जिनदत्तस्य, किं जातं तन्निगद्यते । तस्मिन्नरण्ये मध्याल-काले तद्भाग्ययोगतः ॥३३१॥ गारुडी विश्रुतां विद्यां, धरन्तः केचिदाययुः । ते मार्गश्रमशान्त्यर्थं, तरोस्तस्याऽध आस्थिताः ॥३३२॥ कुर्वन्तस्ते हि संलापं, गारुडास्तरुलम्बितम् । जिनदत्तं दृढं बद्धं, दृष्ट्वा वस्त्रेण विस्मिताः ॥३३३॥ तत्रैको वृक्षमारुह्या-ऽधस्तात्तमवतार्य च । निश्चेष्टं ददृशुः सर्वे, कृष्णवर्णकलेवरम् ॥३३४॥ ततो गारुडिकैः सर्प-दष्ट एषोऽस्ति मानवः । एवं निर्धारितं तर्हि, सर्पदष्टः पुमान् खलु ॥३३५॥ षण्मासान् जीवतीत्यस्मा-दस्य गारुडिकेन हि । मन्त्रेण जीवितं देय-मस्माभिः करुणापरैः ॥३३६॥ (युग्मम्) परोपकारतोऽस्माकं, जीवितं स्यात्फलान्वितम् । इत्यालोच्याऽऽशु तैः, सोऽहिविषमुक्तो व्यधीयत ॥३३७॥ जिनदत्तः क्षणेनाऽसौ, जजागार प्रसुप्तवत् । ततो गारुडिकान् स्वीय-समीपस्थान्निरैक्षत ॥३३८॥ निजबन्धुमदृष्ट्वा सो-ऽपृच्छ्त्तांस्तदा द्रुतम् । मम बन्धुरगात्कुत्रै-तच्छ्रुत्वा ते न्यवेदयन् ॥३३९॥
62
विविध हैम रचना समुच्चय