________________
ततः श्रेष्ठी शिशुं लुब्धोऽपृच्छत् त्वं कुत आगतः । किमर्थमिति मां ब्रूहि, तदोवाचाऽर्भकोऽपि तम् ॥३१७॥ दयालो ! बन्धुवर्यो मे, वने दष्टोऽहिना मृतः । अस्ति सम्प्रति तस्याऽहं, मृतकृत्यचिकीर्षया ॥३१८॥ इहाऽऽयातोऽस्मि कृपया, तद्दाहार्थसाधनम् ।। मह्यं देहि भवेद् येन, तस्य दाहक्रिया द्रुतम् ॥३१९॥ तन्नेत्राश्रूणि जातानि, मौक्तिकानि मुहुर्मुहः । तल्लोभपाशबद्धोऽसौ, तमनैषीद् गृहान्तरम् ॥३२०॥ करेङ्गितेन दासं स्व-मादिशत्त्वरितं तदा । नयेमं सप्तमभूम्यां, प्रासादस्याऽस्य सत्वरम् ॥३२१॥ नीत्वा स्थापय मञ्जूषा-मध्ये पूरय तन्मुखम् । येनाऽयं नैव निःसर्तुं, प्रभवेज्जातु बालकः ॥३२२॥ ततः श्रेष्ठिवचः श्रुत्वा, दासस्तदनुसारतः । नीत्वा तं सप्तमावन्यां, स्थापयामास यत्नतः ॥३२३॥ मञ्जूषायां विशालायां, पिधानेन च तां व्यधात् । इतश्चाऽसौ विषण्णात्मा, भ्रातृदाहसमुत्सुकः ॥३२४॥ अपराधीव निगडे, बद्धो निःसर्तुमैहत ।। कष्टेन यापयन् कालं, रुदन गाढं मुहुः शिशुः ॥३२५॥ तं शिशुं स्वादुभोज्यानि, भोजयित्वा दिने दिने । प्रभाते कशयाऽऽघात्य, रोदयित्वाऽतिनिर्दयः ॥३२६॥ अश्रुबिन्दून्निपततो, मौक्तिकत्वमुपेयुषः । लिप्सू रुदन्तं नाऽमुञ्चत्प्रार्थितोऽपि मुहुर्मुहुः ॥३२७॥ एवं निष्कास्य मञ्जूषा-मध्याच्छ्रेष्ठी स प्रत्यहम् । रुदन्तं कशया निघ्नन्, निर्दयोऽसौ तुतोद तम् ॥३२८॥
श्रीजिनदासश्रेष्ठिकथा
61