________________
हे बालौ ! शृणुतं स्वस्थौ, ठक्कुरादेश ईदृशः । इमौ बालौ त्वया घात्यौ, नो चेत्प्राणैर्वियोक्ष्यसे ॥२८१ ॥
अतो युवां हनिष्यामि, वधस्थान उभावपि । एतदर्थं नये हन्तुं स्मरतं स्वेष्टदेवताम् ॥ २८२ ॥
•
इति तद्वचनं श्रुत्वा जिनदत्ताभिधः शिशुः । ज्येष्ठोऽवदत् कोऽपि, नैवाऽपराधोऽकारि जातुचित् ॥ २८३॥
ठक्कुरस्य पुरेशस्य, चावाऽऽभ्यां भद्र ! निश्चितम् । तदा कथं नौ हन्तुं त्वा - मादिशन्मतिमानसौ ॥ २८४॥ बालस्यैवं वचः श्रुत्वा, ठक्कुराज्ञावशंवदः । अवदत् तं घन-क्रूर-कर्मलुप्त - विवेकधीः ॥ २८५॥ अहं वर्ते पराधीन - स्तत् वां यदि जहाम्यहम् । ठक्करो मां ध्रुवं हन्यादिति त्यक्तुं क्षमोऽस्मि न ॥ २८६ ॥ एवमुक्त्वा स चाण्डालः, खड्गमादाय तौ शिशू । हन्तुं प्रायुङ्क्त तत्पुण्य- प्रभावात् स च नाऽचलत् ॥२८७॥
पुण्योदये हि सकलं, विघ्नं नश्यति तत्क्षणम् । नश्यति हि तमोऽवश्यं, सूर्ये तुङ्गोदयाचले ॥२८८॥ ततः सञ्जातकरुण-श्चाण्डालस्तौ न्यवेदयत् । उपायमेकं कल्याण-कारकं सूचयाम्यहम् ॥ २८९॥ हे बालौ ! यदि नैवाऽत्र, ग्रामे जातु भ्रमादपि । आगच्छेतं तदा नूनं, मुञ्चेयं न चाऽन्यथा ॥ २९०॥ एवमस्त्विति तौ बालौ, चाण्डालं प्रति ऊचतुः । मौक्तिकानि च ददतुः, संगृहीतानि भूरिशः ॥ २९९ ॥
चाण्डालस्तदा तूर्णं, तत्सौन्दर्यविमोहितः । प्राप्तमौक्तिकजातोऽसौ मुमोच वधनिःस्पृहः ॥ २९२ ॥
58
"
विविध हैम रचना समुच्चय