________________
पुराकृतानि पुण्यानि, रक्षन्तीति वचो ध्रुवम् । यन्नृशंसजनस्याऽपी-दृशी जाता दया हृदि ॥२९३॥ चाण्डालष्ठक्कुरं गत्वा, प्रोवाच तुष्टमानसः । स्वामिस्त्वदाज्ञया बालौ, वधस्थाने व्यघातयम् ॥२९४॥ ठक्कुरस्त्वद्वचः श्रुत्वा, संजातप्रत्ययस्तदा । सुखं निर्गमयामास, कालं कृत्यपरायणः ॥२९५॥ इतश्च वधनिर्मुक्तौ, पितृभ्यां तु वियोजितौ । चलन्तौ नगराण्येतौ, बहूनि चोल्ललऋतुः ॥२९६॥ यन्तौ रुदन्तौ संप्राप्तौ, विपिनं गहनं शिशू । पित्रोवियोगजं दुःखं, सहमानौ सुदुःसहम् ॥२९७॥ दिवाकरोऽपि तदुःख-मीक्षितुं न क्षमोऽभवत् । अस्ताचलमगात्तूर्णं, तमिस्रा समुपागमत् ॥२९८॥ ततस्तरुतले ताभ्यां, मनसीत्थं विचिन्तितम् । हिंसका बहवः सन्ति, तत्कथं शयनं द्वयोः ॥२९९॥ एकेनैवाऽत्र सुप्तव्य-मपरेण तु जाग्रता । सुप्तो रक्ष्यो महाघोरेऽरण्ये हिंसकजन्तुतः ॥३००॥ (युग्मम्) एवं विमृश्य ज्येष्ठोऽवग, भ्रातस्त्वं शेष्व पूर्वतः । त्वयि प्रबुद्धेऽहमपि, शयिष्ये रक्षितस्त्वया ॥३०१॥ कनीयानाह हे भ्रात-स्त्वमेव प्रथमं वने । स्वपिहीह ततः पश्चा-दहं स्वप्स्यामि रक्षितः ॥३०२॥ जिनदत्तः कनिष्ठस्य, भ्रातुर्वचनतः पुरा । सुप्तस्तत्र वने भीष्मे, जिनरक्षित-रक्षितः ॥३०३॥ जजागार तदा ज्येष्ठं, भ्रातरं परिपालयन् । लघुः स्नेहपरीतात्मा, हिंस्राद्बिभ्यन्महावने ॥३०४॥ श्रीजिनदासश्रेष्ठिकथा
59