________________
स चाण्डालमुवाचेत्थ-मरे ! चाण्डाल ! मे वचः । श्रूयतां सावधानेन, हन्येतां बालकाविमौ ॥२६९॥ नो चेद्वियोक्ष्यसे प्राणै-स्त्वमेव सुविनिश्चितम् । एतत्छुत्वा गृहीत्वा च, जिनदासस्य नन्दनौ ॥२७०॥ चाण्डालस्तद्वधं कर्तुं, निर्ययौ नगराद् बहिः । किमालोच्य कृतं किं हि, जातं भाग्येन कश्मलम् ? ॥२७१॥ इतश्च जिनदासोऽसौ, मनसाऽचिन्तयद् भृशम् । किमसत्यं वचो जातं, मुनीनां तथ्यवादिनाम् ॥२७२॥ मन्निमित्तवधो भावी, पुत्रयोर्मे निरागसोः । अथवा भाग्यहीनस्य, ममैतादृग् विपर्ययः ॥२७३॥ किं करोमि प्रपद्यैकं, शरण्यं वा कृपाजुषम् ? । अथवा शरणं दुःखे, धर्म एव न संशयः ॥२७४॥ अतो मे पुत्रयोः पुण्यं, तच्छरण्यं भविष्यति । निश्चितं तत्प्रभावेण, क्षेमं सर्वविधं तयोः ॥२७५॥ भाग्याधीनं जगत्सर्वं, चिन्तनं मे निरर्थकम् । जिनदासो विमृश्येदं, धृति लेभे च शाश्वतीम् ॥२७६॥ चाण्डालेन नीयमानौ, वधस्थानं शिशू उभौ । विज्ञातात्मवधौ भूरि-मार्गे रुरुदतुस्तराम् ॥२७७॥ तत्रैकस्य कनिष्ठस्य, जिनरक्षितकस्य तु । मौक्तिकानि प्रजातानि, पतिता अश्रुबिन्दवः ॥२७८॥ वस्त्राञ्चले मौक्तिकानि, जग्राह मतिमानसौ । जिनरक्षितनामाऽत्र, प्रयत्नेनाऽखिलान्यपि ॥२७९॥ रुदन्तौ बालकौ दृष्ट्वा, दयायुक्तोऽपि घातकः । एतौ कन्दर्पदर्पघ्नाविदं वचनमब्रवीत् ॥२८०॥ श्रीजिनदासश्रेष्ठिकथा
-
57