________________
किञ्चित्कालं गृहे स्थित्वा, यथाबुद्धि विमृश्य च । अद्य प्रत्युपकुर्वेऽहं, ठक्कुरं गुणशालिनम् ॥२५७॥ अधोभागस्थितौ तौ च, गृहीत्वा मोदकावुभौ । ठक्कुरस्याऽर्पणायैष, सहर्ष तमुपाययौ ॥२५८॥ सप्रणाममुवाचेदं, शिष्टाचारविशारदः । प्रेरितो दैवयोगेन, 'भवितव्यं न रुध्यते' ॥२५९॥ सामान्यैर्मोदकैस्तुल्यं, न ज्ञेयं मोदकद्वयम् । एतत्प्रभावं विज्ञाय, साधुरीत्योपयुज्यताम् ॥२६०॥ मनसा सावधानेन, श्रूयतां वचनं मम । न प्रमादो विधेयोऽत्र, कल्याणविषये प्रभो ! ॥२६१॥ सप्ताहाभ्यन्तरे राज्य-लाभ एकस्य भक्षणात् । जायते ध्रुवमित्यत्र, नैव कार्या विचारणा ॥२६२॥ अन्यभक्षणमाहात्म्यं, तद्भोक्ता हि प्ररोदिति । तन्नेत्रपतिताश्रूणि, मौक्तिकानि भवन्ति च ॥२६३॥ ततोऽतिहर्षितेनैव, ठक्कुरेण च मोदकौ । भक्षितुं निजपुत्राभ्यां, ददाते तो फलेच्छया ॥२६४॥ भक्षणानन्तरं पुत्रौ, स लोभान्मझवताडयत् । किन्तु कस्याऽपि चक्षुर्त्यां, मौक्तिकानि न निर्ययुः ॥२६५॥ ततोऽतिरुष्टः प्रोवाच, जिनदासं स ठक्कुरः । पुत्रताडनमात्रार्थं, त्वमेवं व्यदधा ध्रुवम् ॥२६६॥ मयाऽनुमीयते चेत्थं, कौटिल्यं तव हार्दिकम् । अतोऽहं ते हनिष्यामि, पुत्रौ द्वावपि साम्प्रतम् ॥२६७॥ इत्युक्त्वाऽऽहूय शालातो, जिनदासस्य नन्दनौ । निहन्तुं सोऽर्पयत्तूर्णं, चाण्डालाय नृशंसिने ॥२६८॥
विविध हैम रचना समुच्चय
56