________________
लतयोरेतयोभिन्ना, गुणास्सन्तीति हे प्रिये ! । तच्चूर्ण मिलितं नैव, न्यस्यं मोदकयोस्त्वया ॥२४५॥ किन्तु द्वयोर्मोदकयो-रेकैकस्मिन् पृथक्-पृथक् । लतयोभिन्नपत्राणां, चूर्णं क्षेप्यं प्रभावयुक् ॥२४६॥ यतः पुत्रद्वयायैतौ, ठक्कुरस्य महामतेः । समप्यौं मोदकौ सद्यो, यथोक्तफलदायिनौ ॥२४७॥ एवमुक्त्वा लताचूर्णे, दत्त्वा पल्यै पृथक्-पृथक् । बहिर्ययौ स्वकार्यार्थं, जिनदासो महाशयः ॥२४८॥ मोदकातिप्रियौ बालौ, चिरान्न मोदकं मम । अभक्षतामतस्ताभ्या-मपि कार्या हि मोदकाः ॥२४९॥ जिनमत्या विचार्येत्थ-मधिकं मोदकद्वयम् । निर्माय रक्षितं तत्र, भिन्ने भिन्ने स्थले स्वयम् ॥२५०॥ सौषधं च द्वयं तत्र, निरौषधमथो द्वयम् । उपरिष्टात्तु निःश्रेण्याः , स्थापितं प्रथमं द्वयम् ॥२५१॥ अधस्तात् स्थापितं तत्र, निरौषधमथो द्वयम् । अथाऽपि भाग्यवैचित्र्याज्जातं विस्मयकारकम् ॥२५२॥ मध्याह्नकाल आयातौ, तस्य पुत्रावुभावपि । विद्यालयादधीत्याऽऽशु, मातुराबानतत्परौ ॥२५३॥ क्षुत्पिपासाकुलौ तौ च, जातौ भोजनकाङ्क्षिणौ । हट्ट आसीत्तदा माता, कुर्वंती क्रयविक्रयम् ॥२५४॥ क्षुधितत्वाच्च निःश्रेण्या, गतावूर्ध्वं तु तौ सुतौ । तत्रस्थौ मोदकौ दृष्ट्वा, पुण्येनौषधिसंयुतौ ॥२५५॥ गृहीत्वा भक्षयित्वा ता-वेकैकं बहुतुष्टिदम् ।। पाठशालां गतौ बालौ, ततः श्रेष्ठी समाययौ ॥२५६॥ श्रीजिनदासश्रेष्ठिकथा
55