________________
धर्माराधनमस्माकं कथं जायेत तं विना ? |
2
चिन्तयन्निति धर्मात्मा, श्रद्धाशुद्धधिया मुदा ॥ २३३ ॥
धर्ममाराधयन् दीना-ननाथांश्च समुद्धरन् । विदधानः सदा पञ्च- परमेष्ठिनमस्कृतिम् ॥२३४॥ आत्मप्रेरणया धर्मे, स्वं कुटुम्बं नियोजयन् । तत्र श्रेष्ठी चिरं कालं, यापयामास तोषभाक् ॥ २३५॥ श्रेष्ठिना जिनदासेन, चित्ते चिन्तितमेकदा । प्रभाविभिर्लतापर्णैः, किं विधेयं मयाऽधुना ? ॥ २३६ ॥ पुत्रद्वयाय दद्यां किं, लतापर्णानि वा नहि ? | भाग्यहीनतया किं नः पर्णैरेभिर्भविष्यति ? ॥ २३७॥ यतो भाग्यविहीनानामुत्तमाऽपि न लाभदा । सामग्री जायते लोके, सर्वांशैरपि शोभिता ॥ २३८ ॥
एवं विचिन्त्य स श्रेष्ठी, परोपकृतितत्परः । परस्मै तानि पत्राणि, विस्रष्टुं समकल्पयत् ॥२३९॥
ततस्तद्दानपात्रं स, गवेषयितुमुद्यतः । स्वग्रामस्वामिनं तं हि, ठक्कुरं निरधारयत् ॥ २४०॥ उपकारी ममैवाऽयं ग्रामाधीशोऽस्ति ठक्कुरः । प्रसादेनैव यस्याऽहं निवसामि सुखेन यत् ॥२४१॥
>
मण्डयित्वा तथा हट्टं, क्रयविक्रययोगतः I उपाय द्रविणं किञ्चिज्जीवामः सुखनिर्भरम् ॥ २४२॥
54
तस्माद्देयानि पर्णानि, ठक्कुरायोपकारिणे । विचार्येत्थं जगौ स्वीयां, पत्नीमाज्ञानुसारिणीम् ॥२४३॥ एवं प्रिये कुरुष्वाशु, सुगन्धी स्वादशालिनौ । मोदक चूर्णसंमिश्रौ, स्थापनीयौ पृथक्-पृथक् ॥ २४४॥
विविध हैम रचना समुच्चय