________________
आकर्ण्य तद्वचः श्रेष्ठी, सक्रोधस्तमवोचत । सत्यं निवेदयाऽऽशु त्वं, नो चेद्दण्डेन योक्ष्यसे ॥१९७॥ सत्यमुक्तं तदा तेन, यथा प्राप्तिस्तयोरभूत् । गृहीतौ मोदको काष्ठ-हारकेभ्यः स्वहट्टके ॥१९८॥ श्रेष्ठिना वास्तवं ज्ञातु-माहूताः काष्ठहारकाः । दर्शयित्वा भयं किञ्चि-त्पृष्टस्तेन च तद्यथा ॥१९९॥ सत्यमुक्तं ततस्तैस्तु, गृहीता मोदका यथा । अरण्ये श्रेष्ठिनं कञ्चिल्लुण्टित्वा खलु निर्जने ॥२००॥ इति वृत्तं तु विज्ञाय, श्रेष्ठिना चिन्तितं भृशम् । बालकार्थं मया दत्ता, लुण्टाकैस्तेऽपि लुपिटताः ॥२०१॥ जिनदासनिषिद्धेऽपि, मोदकग्रहणे तदा । मया दत्ता बलात्तस्मै, ततो जातः स दुःखितः ॥२०२॥ महात्मनस्तु तस्याऽहं, दुःखहेतुरिहाऽभवम् । किं करोमि विधिस्तस्मै, यदि रुष्टोऽस्ति साम्प्रतम् ॥२०३॥ अनुकूले विधौ सर्वमनुकूलं प्रजायते । प्रतिकूले विधौ सर्वं, प्रतिकूलं भवत्यलम् ॥२०४॥ दैवाधीनं जगत् सर्वं, नाऽत्र कार्या विचारणा । अचिन्तितं समायाति, चिन्तितं याति दूरतः ॥२०५॥ रामो भावी नृपः प्रात-जंगाम गहनं वनम् । इत्थं विचिन्त्य निश्चिन्तो, धर्मदासोऽभवत्तदा ॥२०६॥ निवसन् ठक्कुरग्रामे, जिनदासः स एकदा । वर्षाकाले स्वकार्यार्थी, किश्चिद्ग्रामान्तरं ययौ ॥२०७॥ ततः परावृतस्याऽस्य, मार्गमध्ये समागमत् । सन्ध्याकाले नदी चैका, जलपूरेण पूरिता ॥२०८॥ श्रीजिनदासश्रेष्ठिकथा
51