________________
उत्तरीतुं निशायां तां, नीरपूराप्लुतां नदीम् । अशक्नुवन् सरित्तीरे, तरुमारूढवानसौ ॥२०९॥ तरौ निशि वसन्ति स्म, भारण्डाख्या विहङ्गमाः । तेषां स्थितिः स्वरूपं च, चित्रकृत् ज्ञायते श्रुते ॥२१०॥ एकोदराः पृथग्ग्रीवा-स्त्रिपदा मर्त्यभाषिणः । भारण्डपक्षिणस्तेषां, मृतिभिन्नफलेच्छया ॥२११॥ तत्रैको बालभारण्ड, उवाच पितरं प्रति । न व्यत्येति निशाऽस्माक-मत्र किं प्रविधीयताम् ॥२१२॥ काव्यशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां, निद्रया कलहेन वा ॥२१३॥ तस्मान्मनोविनोदाय, वक्तव्या सुरसा कथा । यावत् प्रभातं हे तात !, विचित्रा नीतिगर्भिका ॥२१४॥ श्रुत्वा बालवचस्तत्र, वृद्धभारण्ड उक्तवान् । श्रूयतां हि मया काऽपि, कथा चित्रा निगद्यते ॥२१५॥ विहरन्तः समागच्छन्, कदाचिज्जैनसूरयः । संयता बहुवर्षेभ्यः, पूर्वमत्र विचक्षणाः ॥२१६॥ रात्रौ निवसतां तेषा-मेतत्तरुतले सुखम् । बहुधा समजायन्त, द्रव्ययोगप्रवृत्तयः ॥२१७॥ कथितं मुनिनैकेन, प्रभावो मणिमन्त्रयोः । लोके न शक्यते वक्तुमौषधीनां विशेषतः ॥२१८॥ अनलेन्धनयोगेऽपि, चन्द्रकान्ते सुयोजिने । दाहो न जायते तत्र, प्रभावो हि मणेः स्मृतः ॥२१९॥ मन्त्रेऽप्युच्चारिते सम्य-ग्विषवैद्येन तत्क्षणम् । सर्पदष्टा जनास्तावद्, जीवतीह यथासुखम् ॥२२०॥ 52
विविध हैम रचना समुच्चय