________________
जिनदासकृते पूर्वं, मोदकाः रत्नसंयुताः । तस्मै दत्तास्तु चत्वारस्तत्राऽपि द्वितयं कथम् ॥१८५॥ जिनदासेन विक्रीतौ, गृहीतौ वा ततो बलात् । केनाऽपि निर्दयेनेति, निर्णेतुं किङ्करं द्रुतम् ॥१८६॥ कथितं धर्मदासेन, विश्वस्तं बुद्धिमत्तमम् । यावन्तो मोदकाः सन्ति, हट्टे कान्दविके स्थिताः ॥१८७॥ गृहीत्वाऽऽगच्छ तान् सर्वान्, नाऽत्र कार्या विचारणा । निशम्य तद्वचः शीघ्रं, कार्यदक्षः स किङ्कर ॥१८८॥ गत्वा कान्दविकं स्वामि-निर्दिष्टं स न्यवेदयत् । सविधे तेऽधुना सन्ति, यावन्तश्चाऽपि मोदकाः ॥१८९॥ देहि मे निखिलांस्तांस्त्वं, स्वाम्यादेशप्रपूर्तये । किङ्करस्य वचः श्रुत्वा-ऽब्रवीत् कान्दविकश्च तम् ॥१९०॥ द्वावेव मोदकौ पार्वे, वर्तेते मम साम्प्रतम् । इत्युक्त्वा तौ ददौ तस्मै, किङ्कराय स मोदकौ ॥१९१॥ गृहीत्वा किङ्करश्चाऽपि, धर्मदासाय तौ ददौ । भञ्जयामास तौ तूर्णं, स विज्ञातस्वमोदकः ॥१९२॥ भग्नाभ्यां च ततस्ताभ्या-मपि रत्नद्वयं तथा । विनिर्गतं तदा वीक्ष्य, न तद्धेतुमबुध्यत ॥१९३॥ जिज्ञासमानस्तद् वृत्तं, धर्मदासोऽतिविस्मितः । कुतः कान्दविकः प्राप-दिति निर्णेतुमन्ततः ॥१९४॥ सोऽपि तत्र समाहूतः पृष्टश्चाऽपि न्यवेदयत् । मयैव निर्मिता भद्र !, विक्रीयन्ते च प्रत्यहम् ॥१९५॥ एवमेवाऽत्र भो धीमन् ! चिरकालनिरन्तरम् । क्रयविक्रयरूपेण, व्यवहारो चलत्ययम् ॥१९६॥
विविध हैम रचना समुच्चय
50