________________
न्यदधात् स च तानात्म-हट्टे यत्नेन भूयसा । बहुमूल्येन दास्यामि, ग्राहकेभ्य इतीच्छया ॥१७३॥ द्वितीय दिवसे प्रात-धर्मदासस्य बालकाः । गृहे बुभुक्षिता जाताः, प्रातराशं विना तदा ॥१७४॥ किञ्चिदन्नं न वा भोज्यं, सिद्धमासीत् सुतुष्टिदम् । आहूय सेवकं श्रेष्ठी, प्रेषयामास तत्क्षणम् ॥१७५॥ भोज्यानयनकामोऽयं, हट्टं कान्दविकं ययौ । सेवकस्तत्क्षणं तत्र, विमृशन् ग्राह्यतां पुनः ॥१७६॥ गृहीतौ मोदको येन, रूप्यकद्वयमूल्यतः । दैवात्तमेव सम्प्राप्तो, हट्टे कान्दविकं तु सः ॥१७७॥ ततस्तं धर्मदासस्य, किङ्करस्त्वरयाऽऽकुलः ।। पक्वान्नं सरसं स्वादु, याचते स्म निदेशतः ॥१७८॥ ततः कान्दविकः शीघ्रं, गृहीत्वोचितमूल्यकम् । सेवकाय ददौ तस्मै, यथावस्थं द्विमोदकम् ॥१७९॥ मोदकद्वयमादाय, सेवक आगतस्ततः । श्रेष्ठिने प्रदायैवं, तस्याऽऽदेशः प्रपालितः ॥१८०॥ विलोक्य धर्मदास-स्तच्चिन्तयामास तत्क्षणे । एतन्मोदकलाभस्तु, कुतः कस्याऽपि वा कथम् ? ॥१८१॥ ततः कान्दविकाद् हट्टा-दानीतौ तौ स्वमोदकौ । संप्रेक्ष्य श्रेष्ठिना तत्र, तयोरेकश्च खण्डितः ॥१८२॥ तन्मध्यान्निः सृतं रल-मेकं दृष्टं सविस्मयम् । ततो भग्नाद्वितीयस्मा-न्मोदकाच्च द्वितीयकम् ॥१८३॥ एवं रत्नद्वयं प्रेक्ष्य, श्रेष्ठिनाऽऽशु विचारितम् । तावेतौ मोदकौ स्तो यौ, दत्तौ रत्नयुतौ मया ॥१८४॥ श्रीजिनदासश्रेष्ठिकथा
49