________________
ठक्कुरस्य ततो ग्राम-मेत्य संप्रार्थ्य तं पुनः । निजावासकृते योग्यं सर्वसामग्रीसंयुतम् ॥१६१॥ स्थानं वीक्ष्य ततस्तैस्तु, निषद्या विहिता तदा । सर्पिस्तैलगुडादीनि, विक्रेतुं तत्र स न्यधात् ॥१६२॥ (युग्मम्) वाणिज्यव्यवहारेण, दम्पत्योर्जीविकाऽभवत् । स्वं स्वं कालमवेक्ष्यैव, सर्वे जाताः क्रियापराः ॥१६३॥ यदा समीपग्रामेषु, विक्रयार्थं स गच्छति । तदा पणायते हट्टे, तद्भार्या शेमुषीमती ॥१६४॥ गच्छन्तौ पाठशाला तद्-बालावास्तां दिने दिने । इत्थं तेषां गते काले, निर्विघ्नेनाऽल्पवासरे ॥१६५।। इतः काष्ठहरास्ते तु, दैवयोगेन संगताः । जिनदासाद् गृहीतं यै-र्मोदकानां चतुष्ट्यम् ॥१६६॥ विमलं नगरं प्राप्य, निर्भाग्यत्वेन निर्जितैः । विचारितं तदा तैस्तु, जीविकाकृष्टमानसैः ॥१६७॥ कथं नो मोदकैरेतै-निर्वाहोऽत्र भविष्यति । विक्रीतेषु मोदकेषु, कार्यं स्यादतिशोभनम् ॥१६८॥ यतो मोदकमूल्येन, बहु द्रव्यं भविष्यति । व्यत्येष्यन्ति दिनानीत्थं, तेन सप्ताधिकं सुखम् ॥१६९॥ भूयो भूयो विचार्येत्थं, हट्ट कान्दविकं ययुः । कथयामासुरेतं भोः !, श्रोतव्यं नो निवेदनम् ॥१७०॥ अत्रेमान् मोदकान् भद्र !, विक्रेतुं वयमागताः । गृह्णातूचितमूल्येन, तत्त्वं जानासि यत् स्वयम् ॥१७१॥ सरसांस्तान् सुगन्धींश्च, मोदकानवलोक्य सः । तन्मूल्यमुचितं दत्त्वाऽक्रीणात्तेभ्यो द्विरूप्यकम् ॥१७२॥
विविध हैम रचना समुच्चय
48