________________
ग्रहीतुं ते हि काष्ठानि, संभूय वनमागताः । किन्तु वृष्ट्यनुरोधेना-ऽप्राप्य काष्ठानि दुःखिताः ॥१४९॥ चिन्तयामासुरेवं ते, काष्ठालाभेन व्याकुलाः । अहोऽस्माकं महत्कष्टं, दुर्दैवात् समुपस्थितम् ॥१५०॥ किमद्य भक्षयिष्यामः किं वा दास्यामहे गृहे । क्षुत्तृडार्तकुटुम्बाय ?, भूयो भूयो मिथो जगुः ॥१५१॥ चिन्तितं च तदा तैस्तु, क्वचित्काले समागते । जनमान्यैर्बुधैश्चाऽपि, गम्यते चोत्पथेन वै ॥१५२॥ लुण्टनस्य प्रयोगेण, निर्वोढव्याऽद्य जीविका । इत्थं निश्चिन्वतां तेषां, सञ्जातस्तैः समागमः ॥१५३॥ भीमकायान् महाघोरान्, साक्षाद्यमसहोदरान् । दृष्ट्वा सर्वे तदा जग्मुः, किं कुर्यामेति मूढताम् ॥१५४॥ जिनदासं च ते वीक्ष्य, प्रोचुः परुषया गिरा । रे ! ते पार्वेऽस्ति किं वस्तु, सत्यं सत्यं निगद्यताम् ॥१५५॥ अन्यथा प्रहरिष्याम-श्चण्डदण्डेन भूरिशः । दीयन्तां हि समस्तानि, वस्तूनि क्षेमकाङ्क्षिभिः ॥१५६॥ विचारितं तदा तेन, जिनदासेन धीमता । निर्भाग्येन गृहीतानां मोदकानामिदं फलम् ॥१५७॥ तस्मात्तदर्पणं श्रेय, इति सत्यं जगाद सः । पाथेयं बालयोरस्ति, मोदकानां चतुष्टयम् ॥१५८॥ नैवाऽन्यत् किञ्चिदस्तीह, संदेहऽश्चेद् विलोक्यताम् । गृहीताश्च ततः सर्वे, मोदकास्तैस्तु हारकैः ॥१५९॥ फलाहारेण निर्वाहं, कुर्वन्तश्च जिनादयः ।
अग्रे गच्छन्त एवैते, कस्याऽपिः करुणावतः ॥१६०॥ श्रीजिनदासश्रेष्ठिकथा
47