________________
?
अवशिष्टं न ही पुण्यं तदा तद्ग्रहणेन किम् ? | प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१३७॥
,
इति निश्चित्य मनसा, तं खण्डं त्यक्तवानहम् । अत एव ग्रहीष्यामि न किञ्चिद्वस्तु साम्प्रतम् ॥१३८॥ एवमुक्त्वाऽग्रतो यान्तं जिनं धर्मोऽब्रवीत् पुनः । गृहाण किञ्चिद्रलं त्वं, सर्वेप्सा चेन्न ते सखे ! ॥१३९॥
अथाऽपि नाऽग्रहीत् किञ्चि-ज्जिनदासस्तदा ततः । प्रत्येकं बालकाभ्यां तु, सरलं मोदकद्वयम् ॥१४०॥
पाथेयं धर्मदासेन, दत्तं स्वोपकृतौ मुदा ।
न स्वीकृतं तद् बालाभ्यां पितुराज्ञानुसारतः ॥ १४१ ॥ ( युग्मम् )
हेतौ जिज्ञासिते तत्र, धर्मदासेन हार्दतः ।
जिनदास उवाचाऽति - मार्मिकं वचनं तदा ॥ १४२ ॥
यस्य भोजनमात्रेण, सञ्जाता ताडना मम । मोदकादनसक्तानां न जाने किं भविष्यति ? ॥ १४३ ॥
"
"
अतोऽहं प्रार्थये श्रेष्ठिन् !, मोदकग्रहणाद् वरम् । निखिलापत्तिहेतूनां तेषामग्रहणं ननु ॥ १४४ ॥
1
एवं जिनवचः श्रुत्वा, धर्मदास उवाच तम् । यदि त्वं शङ्कसे लातुं, तर्हि मा लाहि मोदकौ ॥१४५॥
46
दम्पत्योर्न ददे किञ्चित्, किन्तु बालकहेतवे ।
चतुष्टयं मोदकानां साग्रहं प्रेमपूर्वकम् ॥१४६॥
"
तदपि तं गृहीत्वा ते सर्वे ग्रामाद् बहिर्ययुः ।
,
तरुच्छायां समाश्रित्य वसन्ति स्म यथारुचि ॥ १४७ ॥ ( युग्मम् )
अन्येद्युरग्रे गच्छद्भि- विपिने तैश्च सङ्गताः ।
मध्याह्ने विमलापुर्यां वास्तव्याः काष्ठहारकाः ॥१४८॥
विविध हैम रचना समुच्चय